________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२०२
चरक-संहिता। [विचिकित्सितम् वाप्यसंवृतो भवति। विगतलक्ष्मीः शरीरकान्तिस्तस्य विगता भवति । प्रकृतिविकारं प्राप्तः स्यात् । य एवम्भूतः स्यात् स नरो विपदाता शेयः। सुश्रुते चोक्तम् । “धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः। सुश्रुतप्रभृतीन् शिष्यान् शशासाऽहतशासनः॥ रिपवो विक्रमाक्रान्ता ये च स्वे कृत्यतां गताः। सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम् । विषैनिहन्युनिपुणं नृपति दुष्टचेतसः। स्त्रियो वा विविधान् योगान् कदाचित् सुभगेच्छया। विषकन्योपयोगाद् वा क्षणाजह्यादसून नरः। तस्माद वैदेशन सततं विषाद्रक्ष्यो नराधिपः ।। यस्माच चेतोऽनित्यवमश्ववत् प्रथितं नृणाम्। न विश्वसेत् ततो राजा कदाचिदपि कस्यचित् ॥ कुलीनं धार्मिक स्निग्धं सुभृतं सततोत्थितम् । अलुन्धमशठं भक्तं कृतज्ञ प्रियदर्शनम्। क्रोधपारुष्यमात्सर्य मदालस्य विवर्जितम्। जितेन्द्रियं क्षमावन्तं शुचिं शीलदयान्वितम्। मेधाविनम् असंश्रान्तमनुरक्तं हितैषिणम्। पटुं प्रगल्भं निपुणं दक्षं मायाविवर्जितम् । पूव्वोक्तैश्च गुणैर्युक्तं नित्यं सन्निहिताऽगदम्। महानसे प्रयुञ्जीत वैद्य तद्विद्यपूजितम् ॥ प्रशस्तदिगदेशकृतं शुचिभाण्डं महच्छुचि। सजालकं गवाक्षाध्यमात्मवर्ग निषेवितम् । विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम् । परीक्षितस्त्रीपुरुषं भवेच्चापि महानसम् ॥ तत्राध्यक्ष नियुञ्जीत प्रायो वैद्यगुणान्वितम् ॥ शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः। संविभक्ताः सुमनसो नीचकेशनखाः स्थिराः। स्नाता दृढ़ संयमिनः कृतोष्णीषाः सुसंयताः। तस्य चाशा विधेयाः स्युर्विविधाः परिकर्मिणः॥ आहारस्थितयश्चापि भवन्ति प्राणिनो यतः। तस्मान्महानसे वैद्यः प्रमादरहितो भवेत। महानसिकवोदारः सौपौदनिकपौपिकाः। भवेयुर्वेद्यवशगा ये चाप्यन्ये तु केचन ॥ इणितज्ञो मनुष्याणां वाकचेष्टामुखवैकृतः। विद्याद विषस्य दातारमेभिर्लिङ्गैश्च बद्धिमान् ॥ न ददात्युत्तरं पृष्टो विवक्षन् मोहमति च। अपार्थ बहु सङ्कीर्ण भाषते चापि मूढवत्। स्फोटयत्यङ्गुलीभूमिम् अकस्माद विलिखेद्धसेत् । वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते। क्षामो विवर्णवक्तश्च नरवैः किञ्चिच्छिनत्यपि। आलभेतासकृद दीनः करेण च शिरोरुहान्। निर्यियासुरपद्वारैर्वीक्षते च पुनःपुनः। वर्तते विपरीतस्तु विषदाता विचेतनः। केचिद् भयात् पार्थिवस्य खरिता वा तदाशया। असतामपि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः। तस्मात् परीक्षणं कायं भृत्यानामादितो नृपः। अन्ने पाने दन्तकाष्ठे तथाभ्यङ्गेऽवलेखने। उत्सादने
For Private and Personal Use Only