________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अभ्यायः]
चिकित्सितस्थानम् । ३२०१ लाक्षासन्धवमांसीहरेण हिङ्गद्विसारिवाकुष्ठः। सव्योषवाहीकर्दीलेपेन घट्टयेद यावत् ॥ सर्वविषशोथगुल्मत्वग्दोषार्थीभगन्दरप्नीह्रः। शोथापस्मारक्रिमिभूतस्वरभेदकण्डुपाण्डुगदान् । मन्दाग्नित्वं कासं सोन्मादं नाशयेयुरथ पंसाम् । गुटिकाश्छायाशुष्काः कोलसमास्ताः समुपयुक्ताः॥ २६ ।।
क्षारगुड़िकाः। पोतविषदष्टविद्धष्वेतद्विषे च वाच्यमुद्दिष्टम् । सामान्यतः पृथक्त्वान्निद्देशमतः शृण यथावत् ॥ २७॥ रिपुयुक्तभ्यो नृभ्यः स्वेभ्यः स्त्रोभ्योऽथवा भयं नृपतेः । आहारविहारगतं तस्मात् प्रष्यान् परीक्षेत ॥ २८॥ अत्यर्थशङ्कितः स्याद् बहुवागथवाल्पवाग् विगतलक्ष्मीः।
प्राप्तः प्रकृतिविकारं विषप्रदाता नरो ज्ञयः॥ यावद्दीपलेपस्तावद्दीपलेपेन घटयेत्। कोलप्रमाणा गुड़िकाः कुला छायाशुष्काः कार्यास्ताः गुटिकाः समुपयुक्ताः सर्च विषादीन् नाशयेयुः । लोहितमृत् रक्तवर्णगिरिमृत्। रजनीद्वयम् सुरसस्य शुक्ल निगु प्ड्या मञ्जरी, श्वेततुलसी-मञ्जरी वा। द्विसारिवा श्यामलताऽनन्तमूलश्च। वाहीकं हिङ्ग, तेन हिभागद्वयम्। क्षारगुड़िका ॥२६॥ ____ गङ्गाधरः-पीतेत्यादि। पीतविषादिषु सामान्यतो विषे यद वाच्यं तदेतदुद्दिष्टं, अतःपरं पृथक्त्वानिर्देशं यथावच्छृणु ॥२७॥ ___ गङ्गाधरम्--तद्यथा-रिपुयुक्तेभ्य इत्यादि। नृपते राजमात्रस्य तथान्यस्य रिपुयुक्तेभ्यो रिपुभावयुक्तेभ्यो नृभ्यो व्यभिचारादिदोषवतीभ्यः स्त्रीभ्यश्च विषतो भयं भवति । आहारविहारगतं आहारद्रव्यमिश्रितं विषं ते नृपतये प्रेष्यभृत्यर्ददति विहारद्रव्येषु च। तस्मात् प्रष्यान् परीक्षेत ॥२८॥
गङ्गाधरः-विषदाता ह्य वं शेयः। तद्यथा। अत्यर्थत्यादि। विषदाता नरोऽत्यर्थं शङ्कितः स्याद् अतिशङ्की स्वभावत एव स्यात् । बढुवागल्पवाग
चक्रपाणिः-अतः शृष्विति विषस्य लक्षणं भेषजस्य पृथक् निर्देशं शृणु इति। (विषयुक्तमिति विषयुक्वेत्यर्थः।) स्त्रीभ्य इति सौभाग्याथै प्रवृत्ताभ्यः। आहारविहारगतम् इति आहारविहारा
For Private and Personal Use Only