SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१६८ चरक-संहिता। [विषचिकित्सितम् अगदोऽयं वैश्रवणायाख्यातस्त्राम्बकेण षष्टाङ्गः । अप्रतिहतप्रभावः स्मृतो महागन्धहस्तीति ॥ पित्तेन गवां पेष्या गुड़िका सिद्धा तु पुष्ययोगेण । पानाञ्जनप्रलेपैः प्रसाधयेत् सर्वकर्माणि ॥ पिल्लं कण्डू तिमिरं रात्रान्धं काचमबुंदं पटलम् । हन्ति सततप्रयोगाद्धितमितपथ्याशिनां पुंसाम् ॥ विषमज्वरानजीर्णान् दद्रु कण्डूविसूचिकापामाः। कुष्ठ किटिमं श्वित्रं विचर्चिकां चोपहन्ति नृणाम् ॥ विषमूषिकलूतानां सव्वेषां पन्नगानाञ्च । आशु विषं नाशयते मूलजमथ कन्दजं सर्वम् ॥ एतेन लिप्तगात्रः सर्पान् गृह्णाति भक्षयेच्च विषम् । कालपरीतोऽपि नरो जीवति नित्यं निरातङ्कः॥ आनद्धे गुदलेपो योनिलेपश्च मूढगर्भाणाम् । मूर्छार्तिषु च ललाटे लेपनमाहुः प्रधानतमम् ॥ भेरीमृदङ्गपटहान् छत्राण्यमुना तथा ध्वजपताकाः। लिप्त्वाऽहिविषनिरस्त्यै प्रध्वनयेद् दर्शयेन्मतिमान् ॥ यत्र च सन्निहितोऽयं न तत्र बालग्रहा न रक्षांस। न चैव कार्मणमन्ता भजन्ति नाथर्वणो मन्त्राः॥ पादुका। इति षष्टाङ्गोऽयमगदो वैश्रवणाय कुवेराय त्राम्बकेण शिवेनाख्यातो महागन्धहस्तीति नाम्ना। पत्रादीनां पष्टिर्गवां पित्ते पेष्या, पुष्यनक्षत्रे पिष्ट्वा गुड़िका कार्या सिद्धा स्यात्। एतेनागदेन लिप्तगात्रः पुमान् सन्ि गृह्णाति धारयितु शक्तः स्यात्, तथा विषं भक्षयेच्च खादितु शक्तः स्यानास्य व्यापत् स्यात् । भेयादिकमनेन लिप्वाऽहिविषनिरस्त्यै निरासार्थ ध्वनयेत्, तद्धनिश्रवणेन विषं निरस्तं स्यात् । छत्राणि ध्वजपताकाश्च लिप्वाऽहिविषनिरस्त्यै मतिमान् वद्यो दर्शयेद विषार्तम्। बालग्रहाः स्कन्दादयः। नचैवं For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy