SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३श अध्यायः] चिकित्सितस्थानम्। ३१८५ पत्तिश्च ॥४॥ मण्डूकाः। कृष्णः सारः कुहकोहरितो रक्तो यववर्णाभो भृकुटा कोटिकश्चेत्यष्टौ । तैर्दष्टस्य दंशकण्डूभवति। पीतफेणागमश्च वक्तात्। भृकुटीकोटिकाभ्यामेतदव दाहश्छर्दिमूर्छा चातिमात्रम् ॥५॥ विश्वम्भराभिदष्टे दंशः सर्षपाकाराभिः पिड़काभिश्चीयते शीतज्वरार्तश्च पुरुषो भवति ॥६॥ अहितुण्डिकाभिर्दष्टे तोददाहकण्ड्रश्वयथवो मोहश्च ॥७॥ कण्डूमकाभिर्दष्टे पीताश्छदंप्रतिसारज्वरादिभिरभिहन्यते॥८॥ शुकवृत्तादिभिर्दष्टे कण्डूकोठाः प्रवर्द्धन्ते शुकश्चात्र लक्ष्यते ॥९॥ पिपीलिकाः। स्थूलशीर्षा सम्बाहिका ब्राह्मणिका अङ्गलिका कपिलिका चित्रवर्णेति षट्। ताभिर्दष्टे दंशे श्वयथुरग्निस्पर्शवदाहशोफौ भवतः ॥१०॥ मक्षिकाः। कान्तारिका कृष्णा पिङ्गलिका मधूलिका काषायी स्थालिकेत्येवं षट्। ताभिदष्टस्य दाहशोफौ भवतः। स्थालिकाकाषायीभ्यामेतदव पिड़काश्च सोपद्रवा भवन्ति ॥१॥ मशकाः। सामुद्रः परिमण्डलो हस्ति मशकः कृष्णः पार्वतीय इति पञ्च। तैर्दष्टस्य तीव्रकण्डूदंशशोफश्च । पार्चतीयस्तु कीटैः प्राणहरैस्तुल्यलक्षणः। नखावकृष्टेऽत्यर्थं पिड़काः सदाहपाका भवन्ति ॥ जलौकसां दष्टलक्षणमुक्तं प्राक्। तव्यथा। जलमासामायुरिति जलायुकाः। जलमासामोक इति जलौकसः। ता द्वादश । तासां सविषाः षट् तावत्य एव निर्विषाः॥ तत्र सविषाः कृष्णा कब्बरा अलगर्दा इन्द्रायुधा सामुद्रिका गोचन्दना चेति। तास्त्वञ्जनचर्णवर्णा पृथुशिराः कृष्णा। वर्मिमत्स्यवदायता छिन्नोन्नतकुक्षिः कर्बुरा । रोमशा महापार्था कृष्णमुख्यलग । इन्द्रायुधवदूर्द्धराजिभिश्चित्रिता इन्द्रायुधा। ईपदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिका। गोषणवदधोभागे द्विधाभूताकृतिरणमुखी गोचन्दनेति ॥ ताभिर्दष्टे पुरुषे दंशे श्वयथुरतिमात्रं कण्डूमूर्छा ज्वरो दाहश्चदिर्मदः सदनमिति लिङ्गानि भवन्ति ॥ तत्र महागदः पानालेपननस्यकादिधूपयोज्यः। इन्द्रायुधादष्टमसाध्यमिति षट् सविषा जलौकसः सचिकित्सा व्याख्याताः॥ भवन्ति चात्र। गौधेरकः स्थालिका च ये च श्वेताग्निसंप्रभे। भृकुटी कोडिकश्चैव न सिध्यन्त्येकजातिषु ॥ शवमूत्रपुरीस्तु सविषैरवमर्षणात् । स्युः कण्डूदाहकोठारु पिड़कातोदवेदनाः। प्रक्लेदवांस्तथा स्रावो भृशं सम्पाचयेत्त्वचम् ॥ त्रिविधा वृश्चिकाः प्रोक्ता मन्दमध्यमहाविषाः। गोशकृत्कोथजा मन्दा मध्याः काष्ठेष्टिकोद्भवाः। सर्पकोथोद्भवास्तीक्ष्णा ये चान्ये विषसम्भवाः॥ मन्दा द्वादश मध्यास्तु त्रयः पञ्चदशोत्तमाः। दशविंशतिरित्येते सङ्काया परिकीर्तिताः॥ कृष्णः श्यावः कबूरिः पाण्डवों गोमूत्राभः For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy