SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८२ चरक-संहिता। विषचिकित्सितम् दौर्बल्यं जम्भणं वेपथुः स्वराक्सादो घुघुरको जड़ता शुष्कोद्गारः कासश्वासौ हिक्का वायोरूद्ध गमनं शूलोद्वेष्टनं तृष्णा लालासावः फेणागमनं स्रोतोऽवरोधस्तास्ताश्च वातवेदना भवन्ति॥ मण्डलिविषेण खगादीनां पीतत्वं शीताभिलाषः परिधूपनं दाहस्तृष्णा मदो मूर्छा ज्वरः शोणितागमनमूर्द्ध मधश्च मांसानामवशातनं श्वयथर्दशकोथः पीतरूपदर्शनमाशुकोपस्तास्ताश्च पित्तवेदना भवन्ति । राजिमद्विषेण शुक्लत्वं खगादीनां शीतज्वरो रोमहर्षेः स्तब्धत्वं गात्राणामादंशशोफः सान्द्रकफमसेकश्छदि रभीक्ष्नमक्ष्णोः कण्डूः कण्ठे श्वयथर्पु घुरक उच्छासनिरोधस्तमःप्रवेशस्तास्ताश्च कफवेदना भवन्ति ॥ पुरुषाभिदष्ट ऊर्द्ध प्रेक्षतेऽधस्तात् स्त्रिया, सिराश्वोत्तिष्ठन्ति ललाटे। नपुंसकदष्टस्तिर्यक्मेक्षी भवति । गभिण्या पाण्डमुखो ध्मातश्च । सूतिकया शूलातौ रुधिरं मेहत्युपजिहिका चास्य भवति । ग्रासार्थिनान्नं काति, वृद्धेन मन्दा वेगाश्च । बालेनाशु मृदयश्च । निर्विघेणाविषलिङ्गं। अन्धाहिकेनान्धसमित्येके ॥ ग्रसनादजगरः शरीरप्राणहरो न विषात्। तत्र सद्यःप्राणहराहिदष्टः पतति शस्त्राशनिहत इव भूमौ स्तब्धाङ्गः स्वपितीति ॥ तत्र सर्वेषां सर्पाणां विषस्य सप्त वेगा भवन्ति । तत्र दर्तीकराणां प्रथमे वेगे विषं शोणितं दूषयति। तत् प्रदुष्टं कृष्णतामुपैति। तेन काय पिपीलिकापरिसर्पणमिव चाङ्गे भवति ॥ द्वितीये मांसं दूषयति तेनात्यर्थं कृष्णता शोफो ग्रन्थयश्चाङ्गे भवन्ति ॥ तृतीये मेदो दूषयति। तेन दंशक्लेदः शिरोगौरवं स्वेदश्चक्षुर्ग्रहणश्च ॥ चतुर्थे कोष्ठमनुप्रविश्य कफप्रधानान् दोषान् दूषयति । तेन तन्द्रामसेकसन्धिविश्लेषा भवन्ति ॥ पश्चमेऽस्थीन्यनुप्रविशति। प्राणमग्निश्च दूषयति। तेन पर्व भेदो हिक्का दाहश्च भवति ॥ षष्ठे मज्जानमनुमविशति, ग्रहणीश्चात्यर्थ दूषयति। तेन गात्राणां गौरवमतिसारो हृत्पीड़ा मूर्छा च भवति ॥ सप्तमे शुक्रमनुमविति । व्यानश्चात्यर्थ कोपयति। कफश्च सूक्ष्मस्रोतोभ्यः प्रच्यावयति। तेन श्लेष्मवर्तिप्रादुर्भावः कटीपृष्ठभङ्गश्च सर्चचेष्टाविघातो लालास्वेदयोरतिप्रवृत्तिरुच्छासनिरोधश्च भवति ॥१॥ ___ तत्र मण्डलिनां प्रथमे वेगे विषं शोणितं दूषयति । तत् तु प्रदुष्टं शीततामुपैति, तत्र परिदाहः पीतावभासता चाङ्गानां भवति ॥ द्वितीये मांसं दूषयति, तेनात्यर्थ पीतता-परिदाहो दंशे श्वयथुश्च भवति । तृतीये मेदो दूषयति, सेन पूर्ववचक्षुर्ग्रहणं तृष्णा दंशो क्लेदः स्वेदश्च भवति ॥ चतुर्थे कोष्ठमनु प्रविश्य ज्वरमापादयति ॥ पञ्चमे परिदाहं सर्वगात्रेषु करोति। षष्ठसप्तमयोः For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy