________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः] चिकित्सितस्थानम् । ३१८१ च दम्पत्योर्विशेषश्चात्र वक्ष्यते॥ रजन्याः पश्चिमे याम साचित्राश्चरन्ति हि । शेषेषूक्ता मण्डलिनो दिवा दीकराः स्मृताः॥ दर्तीकरास्तु तरुणा वृद्धा मण्डलिनस्तथा। राजिमन्तो वयोमध्ये जायन्ते मृत्युहेतवः ॥ नकुलाद दलिता बाला वारिविप्रहताः कृशाः। वृद्धा मुक्तखचो भोताः सर्पास्वल्पविषाः स्मृताः॥ तत्र दर्तीकराः कृष्णसपो महाकृष्णः कृष्णोदरः श्वेतकपोतो महाकपोतो बलाहको महासर्पः शङ्खपालो लोहिताक्षो गवेधुकः परिसर्पः खण्डफणः ककुदः पद्मो महापद्मो दर्भपुष्पो दधिमुखः पुण्डरीको भ्र कुटीमुखो विष्किरः पुष्पाभिकीर्णो गिरिसर्प ऋजुसर्पः श्वेतोदरो महाशिरा अलगर्द्ध आशीविष इति ॥ मण्डलिनस्तु। आदर्शमण्डलः श्वेतमण्डलो रक्तमण्डलचित्रमण्डलः पृषतो रोध्रपुष्पो मिलिन्दको गोनसो दृद्धगोनसः पनसो महापनसो वेण पत्रका शिशुको मदनः पालिंहिरः पिङ्गलस्तन्तुकः पुष्पपाण्डुः षड़गोऽग्निको वभ्रः कषायः कलुषः पारावतो हस्ताभरणश्चित्रक एणीपद इति ॥ राजिमन्तस्तु । पुण्डरीको राजिचित्रोऽङ्गुलराजिबिन्दुराजिः कई मकस्तृणशोषकः सर्षपकः श्वेतहनुर्दर्भपुष्पश्चक्रको गोधूमकः किकिसाद इति ॥ निर्विषास्तु। गलगोलो शूकपत्रोऽजगरो दिव्यको वर्षाहिकः पुष्पशकली ज्योतोरथः क्षीरिकः पुष्पका अहिपताको धाहिको गोराहिको वृक्षशय इति ॥ वैकरञ्जास्तु त्रयाणां दोकरादीनां व्यतिकराज्जाताः । तद यथा। मालिः पोटगलः स्निग्धराजिरिति । तत्र कृष्णसर्पण गोनस्यां वैपरीत्येन वा जातो माकुलिः। राजिलेन गोनस्यां वैपरीत्येन वा जातः पोटगलः। कृष्णसर्पण राजिमत्यां वैपरीत्येन वा जातः स्निग्धराजिरिति ॥ तेषामाद्यस्य पितृवद्विषोत्कर्षः, द्वयोर्मातवदित्येके । त्रयाणां वैकरञ्जानां पुनर्दिव्येलकरोध्रपुष्पकराजिचित्रकाः पोटगलः पुष्पाभिकीर्णो दर्भपुष्पो वेल्लितकः सप्त तेषामाद्यास्त्रयो राजिलवत् । शेषा मण्डलिवत् । एवमेतेषां सर्पाणामशीतिरिति ॥ तत्र महानेत्रजिह्वास्यशिरसः पुमांसः। सूक्ष्मनेत्रजिह्वास्यशिरसः स्त्रियः। उभयलक्षणमन्दविषा अक्रोधा नपुसका इति ॥ तत्र सर्वेषां सर्पाणां सामान्यत एव दष्टलक्षणं वक्ष्यामः। किं कारणम् ? विषं हि निशितनिस्त्रिंशाशनिहुतबहदेश्यमाशुकारि मुहूर्तमप्युपेक्षितमातुरमभिपातयति। न चावकाशोऽस्ति वाक्समूहमनुसर्तुम् ॥ प्रत्येकमपि दष्टलक्षणेऽभिहिते सर्पत्रैविध्यं भवति । तस्मात् त्रैविध्यमेव वक्ष्यामः । एतद्धधातुरहितमसम्मोहकरश्च ॥ अपि चात्रैव सर्वस व्यञ्जनावरोधः॥ तत्र दर्वीकरविषेण खङनयननखदशनमूत्रपुरीपदंशकृष्णत्वं रौक्ष्यं शिरसोगौरवं सन्धिवेदना कटीपृष्ठग्रीवा
३९९
For Private and Personal Use Only