________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विंशोऽध्यायः। अथातश्चर्दिचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ यशखिनं ब्रह्मतपोधृतिभ्यां ® ज्वलन्तमग्न्यर्कसमप्रभावम् । पुनर्वसु भूतहिते निविष्टं पप्रच्छ शिष्योऽत्रिजमग्निवेशः॥ याश्छईयः पञ्च पुरा त्वयोक्ता रोगाधिकारे भिषजां वरिष्ठ। तासां चिकित्सां सनिदानलिङ्गां यथावदाचक्ष्व हताय नणाम् ॥२॥ तदग्निवेशस्य वचो निशम्य प्रीतो भिषश्रेष्ठ इदं जगाद। याश्छर्दयः पञ्च पुरा मयोक्ता
स्ता विस्तरेण ब्रुवतो निबोध ॥३॥ गङ्गाधरः-उद्दिष्टानुक्रमेणातिसारचिकित्सितानन्तरं छर्दिचिकित्सितम् आह–अथात इत्यादि। सर्च पूर्ववद् व्याख्येयम् ॥१॥
गङ्गाधरः-यशखिनमित्यादि । ब्रह्मणस्तपश्च धृतिश्च ताभ्याम् । प्रश्नमाहय इत्यादि। पुरा बया याः पञ्च छईयः प्रोक्ता अष्टोदरीये पञ्च छईय इत्युद्दिश्य, पञ्च छईय इति द्विष्टान्नसंयोगवातपित्तकफसनिपातोद्रेका इति, तासां पश्चानां छीनाम् ॥२॥३॥
चक्रपाणिः-शरीरे मार्गद्वयं प्रधान अधोगुदमूई मुखम्, तदधोमार्गाविप्रवृत्तिदोषमतीसारमभिधाय ऊर्द्धातिप्रवृत्तिदोषरूपा छईिरुच्यते इति छईयध्यायसम्बन्धः॥१॥
चक्रपाणिः-ब्रह्मणः तत्त्वज्ञानस्य तपसश्च यती, ताभ्यां ज्वलन्तम्। रोगाधिकारे इत्यष्टोदरीये ॥२॥३॥
* ब्रह्मतपोइरतिभ्यामिति चक्रसम्मतः पाठः ।
-
For Private and Personal Use Only