________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९श अध्यायः चिकित्सितस्थानम् । ३०६३
पोत्वा शतावरीकल्कं पयसा क्षीरभुग जयेत् । रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः ॥ ३९ ॥ घृतं यवागूमण्डेन कुटजस्य फलैः शृतम्। पेयं तस्यानु पातव्या पेया रक्तोपशान्तये ॥ ४० ॥ वत्सकस्य च वीजानि दायाश्च त्वच उत्तमाः। पिप्पली शृङ्गवेरञ्च लाक्षा कटुकरोहिणी ॥ षड़ भिरते तं सिद्धं पेयामण्डावचारितम् । अतीसारं जयेच्छीघ्र त्रिदोषमपि दारुणम् ॥४१॥ कृष्णा मृन्मधुकं शङ्ख रुधिरं तण्डुलोदकम् । पीतमेकत्र संयुक्तं रक्तसंग्रहणं परम् ॥ पीतः प्रियङ्गकाकल्क सक्षौद्रस्तण्डलाम्बुना। रक्तस्त्रावं जयेच्छीघ्र धन्वमांसरसाशिनः॥
बाहादारोग्यमामोति। पीत्वेत्यादि। पयसा शतावरीकल्कं पीला क्षीरभुक रक्तातिसारं जयेत्। तया शतावर्या कल्कभूतया सिद्धं चतुगुणजले पक्वं घृतं वा पीला क्षीरभुङ् नरो रक्तातिसारं जयेत् ॥ ३९॥
गङ्गाधरः-घृतमित्यादि। कुटजस्य फलैः कल्कैश्चतुर्गुणजले शृतं घृतं यवागूमण्डान्यतरेण पेयं तस्यानु पातव्या पेया॥४०॥
गङ्गाधरः-वत्सकस्येत्यादि। वत्सकवीजादिभिरेतः षभिः कल्कः चतुर्गुणजले सिद्धं घृतं पेयामण्डान्यतरेणावचारितं पीतं त्रिदोषमप्यतिसारम् अपिना रक्तातिसारश्च जयेत् ॥४१॥
गङ्गाधरः-कृष्णा मृदित्यादि। कृष्णवर्णा मृत्। शङ्ख भस्मीकृतम् । पञ्च
सम्बन्धः। कपिजलो गौरतित्तिरिः। क्षीरं भुनक्तीति क्षीरभुक्। कपिजलासस्थाने माक्षिक ज्ञेयम। पीचा शतावर्याः कल्कं तया सिद्रं घृतम् वा क्षीरभुग रक्तातिसारं जयेत् । यवागूमण्डेन पेयम् इति सम्बन्धः ॥ ३९ ॥ ४० ॥
चक्रपाणि:-षड् भिरितिपदं यथालाभनिषेधार्थम् ॥ ४ ॥
For Private and Personal Use Only