SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६२ चरक-संहिता। [कासचिकित्सितम द्विपञ्चमूलीत्रिफला-चविकाभार्गिचित्रकैः। कुलथपिप्पलोमूल-पाठाकोलयवैर्जले ॥ शृते नागरदुःस्पर्श-शटीपिप्पलोपौष्करैः। कल्कः कर्कटशृङ्गया च समः सपिर्विपाचयेत् ॥ सिद्धेऽस्मिंश्चूर्णितो क्षारौ द्रौ पञ्चलवणानि च। दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीड़ितः॥ ५६ ॥ द्विपञ्चमूल्यादिघृतम् । गुड़ ची त्रिफलां मूवी हरिद्रां श्रेयसी वचाम्। निदिग्धिकां कासमदं पाठां चित्रकनागरम् ॥ जले चतुगुणे पक्त्वा पादशेषेण तत्समम् । सिद्धं सर्पिः पिबेद् गुल्म-श्वासार्तिक्षयकासनुत् ॥६०॥ गुडू च्यादिघृतम्। भुक्तस्य तस्य क्षयकासिनो भोजने वर्तकाद्या विलेशयाः पिशिताशिनः प्रसहाश्च क्रमशः प्रयोज्याः। ते वर्तकाद्या औष्ण्यात् प्रमाथिभावात् स्रोतोभ्यः कर्फ च्यावयन्ति । प्रमाथित्वं व्यवायिलम् । व्यवायी देहमखिलं व्याप्य पाकाय कल्पते। कफच्यवनेन यत् स्यात् तदाह-शुद्धस्येत्यादि । तैवर्तकादिभिः शुद्धस्य च्युतकफस्य नवोत्थक्षयकासिनः स्रोतःशोधनेन रसो धातुः सम्यग्वहन् पुष्टिं रक्तादिपोषण कुय्योदिति ॥५८॥ ___ गङ्गाधरः-द्विपञ्चमूलीत्यादि। द्विपञ्चमूल्यादियवान्तः काथ्यः शृते जले काथे चतुर्गुणे नागरादिककेटशृङ्गान्तः प्रत्येकं समैः कल्कै तात् पादिकः सर्पि विपाचयेत्। सिद्धे पूते द्विक्षारपञ्चलवणानि युक्त्या दत्त्वा मात्रां पिबेत् । द्विपञ्चमूल्यादिघृतम् ॥ ५९॥ गङ्गाधरः--गुडू चीमित्यादि। गुडू च्यादीनि प्रत्येक समानि नागरान्तानि चक्रपाणिः-द्विपञ्चमूलीत्यादौ क्षारलवणानाञ्च युक्त्या दानवचनेन स्तोकमानं दानं लवणीकरणप्रयोजनार्थ दर्शयति ॥ ५९ ॥ चक्रपाणिः-गुड़ चीमित्यादौ श्रेयसी रास्ना। तल्सममिति क्वाथसमम् ॥ ६ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy