________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०५८ चरक-संहिता।
[कासचिकित्सितम् यवगोधूममृद्वीका-चूर्णमामलकाद रसः। प्रसृतांशानि तैलञ्च तत् सव्वं मृदुनाग्निना ॥ पचेल्लेहं घृतक्षौद्र-युक्तः स क्षतकासहा । कासहृद्रोगकाश्येषु हितो वृद्धाल्परेतसे ॥ ५३॥
पिप्पल्यादिलेहः। क्षतकासाभिभूतानां वृत्तिः स्यात् पित्तकासिकी। क्षीरसर्पिमधुप्राया संसर्गे तु विशेषणम् ॥ वातपित्तादितेऽभ्यङ्गो गात्रभेदे घृतैहितः। तैलैर्मारुतरोगप्नैः पीड्यमाने च वायुना ॥ हृत्पाञ्जर्तिषु पानं स्याजीवनीयस्य सर्पिषः ।
सदाहं कासिनो रक्तं ष्ठोवतः सबलेऽनले ॥ गव्यं क्षीरं प्रास्थिकमाजश्च क्षीरं प्रास्थिकमिक्षरसस्तथा प्रास्थिकः। यवचूण गोधूमचूर्ण मृद्वीकाचूर्णमामलकफलाद्रसश्च तैलश्चत्येतानि पञ्च द्रव्याणि प्रस्तांशानि द्विपलांशानि। तत् सर्वं मृदुनाग्निना लेहं पचेत् । स लेहो घृतक्षौद्रयुतः क्षतकासहा। अत्र घृतक्षौद्रे लेहभक्षणकाले यथायोग्यं मिश्रयिता लेहयेत् । पिप्पल्यादिलेहः ॥५३॥
गङ्गाधरः-क्षतकासेत्यादि। क्षतकासाभिभूतानां पित्तकासिकी पित्तकासोक्ता पथ्यादित्तिहिता स्यात् । तथा क्षीरसपिमधुमाया वृत्तिः स्यात् । संसर्गे तु विशेषणं विशेषः। तद् यथा। वातेत्यादि। वातपित्तसंसर्गादिते गात्रभेदे गात्रमदै घृतैरभ्यङ्गो हितः। वायुना पीड्यमाने च मारुतरोगघ्नैर्वक्ष्यमाणवातरोगघ्नस्तै लैरभ्यङ्गः। हृत्पाार्तिषु जीवनीयस्य नाम्नः सर्पिषः पानं हितम् । सदाहमित्यादि। क्षतकासिनो रक्तं सदाहं ष्ठीवन्तो ये, अनले सबले
चक्रपाणिः-पिप्पल्यादिके लेहे यवादयस्तैलान्ताः प्रत्येकं प्रसृतमानाः ॥ ५३ ॥ चक्रपाणिः-वृत्तिरिति चिकित्सा। संसर्ग तु विशेषणम् इति चिकित्साविशेषो वातपित्ताहित इत्यादिना वक्ष्यमाणो ज्ञेयः। वातपित्तादित इत्यादिना क्षतकासे एवावस्थिकों चिकित्सामाह ।
For Private and Personal Use Only