________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८श अध्यायः] चिकित्सितस्थानम्। ३०५७
कफानुबन्धे पवने कुर्यात् कफहरी क्रियाम् । पित्तानुबन्धयोर्वात-कफयोः पित्तनाशिनीम् ॥ ५० ॥
आद्रे विरुक्षणं शुष्के स्निग्धं वातकफात्मके। कासेऽन्नपानं कफजे सपित्ते तिक्तसंयुतम् ॥ ५१ ।। कासमात्ययिकं मत्वा चतजं त्वरया जयेत् । मधुरैर्जीवनीयश्च बलमांसविवर्द्धनैः ॥ ५२ ॥ पिप्पलीमधुकं पिष्टं कार्षिकं ससितोपलम् ।
प्रास्थिकं गव्यमाजञ्च क्षीरमिक्षुरसस्तथा ॥ स्यात् तदा यथावस्थं पित्तकासक्रियां पूर्वोक्तां प्रयोजयेत्। कफानुबन्ध इत्यादि। कफस्यानुबन्धयुक्त पवनेऽनुबन्धशान्त्यर्थ कफहीँ क्रियां कुर्यात् अत्रानुबन्ध्यनाशादनुबन्धनाशोऽपि शत्यादिसाधर्म्यतः कुपितस्य स्याद वैधम्म्यण कुपितस्य हि न स्यादिति। एवं पित्तस्यानुबन्धयोतिकासकफकासयोरप्यनुबन्धपित्तनाशिनी क्रियां कुर्य्यात्। अनुबन्धजये हि शुद्धस्य जयः मुखेन स्यादिति ॥५०॥
गङ्गाधरः-आर्द्र इत्यादि। वातकफात्मके कासे आईकफे रुक्षणमन्नपानं शुष्के कफे स्निग्धमन्नपानं सपित्ते कफजे तिक्तसंयुतपन्नपानं देयमिति ॥५१॥
गङ्गाधरः-कफजकासचिकित्सामुक्त्वा क्षतजकासचिकित्सितमाह-कास. मित्यादि। क्षतजं कासमात्ययिकमत्ययकरं मला भिषक् खरया जयेत् । करिति ? मधुरैरित्यादिभिः। मधुरैर्द्राक्षाख रादिभिर्जीवनीयदेशभिर्बल मांसविवर्द्धनैबेल्यैट हणीयैश्च दशभिरन्यैश्च जयेदिति ॥५२॥ .
गङ्गाधरः-पिप्पलीत्यादि। पिप्पलीकर्ष मधुककर्ष पिष्टं सितोपलाकर्ष
चक्रपाणिः-तमका उपद्रवः। कफोऽनुबन्धोऽस्येति कफानुबन्धः तस्मिन् कफानुबन्धे पवने। पिसानुबन्धयोरित्यत्रापि वातकफयोरनुबन्धत्वम् पित्तस्य तु प्राधान्यम् । अत एव पित्तनाशिनी क्रियोक्ता तत्र ॥ ५० ॥
चक्रपाणिः-आदें इति तनुकफे ॥ ५ ॥ चक्रपाणिः-कासमित्यादिना क्षतजकासचिकित्सामाह ॥ ५२ ॥
For Private and Personal Use Only