________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। हिक्कावासचिकित्सितम् सौवर्चलं तामलकी सैन्धवं विल्वपेषिकाम् ॥ तालीशपत्रं जीवन्ती वचा तैरक्षसम्मितैः । हिङ्गपादैर्घतप्रस्थं पचेत् तोये चतुर्गणे ॥ एतद यथावलं पीत्वा हिकाश्वासौ जयेन्नरः। शोथानिलार्थीग्रहणी-हृत्पावरुज एव च ॥ ४६॥
तेजोवत्यादि घृतम्। मनःशिलास रस-लाक्षारजनिपद्मकैः । मञ्जिष्ठलैश्च कर्षा शैः प्रस्थः सिद्धो घृताद्धितः॥४७॥
मनःशिलादि घृतम्। जीवनीयोपसिद्धं वा सक्षौद्र लेहयेद् घृतम् ।
वासाघृतं दाधिकं वा पिबेत् वाषणमेव च ॥४८॥ दिभिः प्रत्येकमक्षसम्मितैर्हि पादैः शाणमितहिङ्गसहितैरिति। तेजोवत्यादि घृतम् ॥४६॥
गङ्गाधरः-मनःशिलेत्यादि। शोधितमनःशिला ग्राह्या। मञ्जिष्ठेलश्च मञ्जिष्ठैलाभ्यां वर्त्तन्ते इति तैः मञ्जिष्ठलैरिति। जलमत्र चतुगुणम् । हिकाश्वासिनोहितम् । मनःशिलादि घृतम् ॥४७॥
गङ्गाधरः-जीवनीयेत्यादि। जीवनीयदशककल्कसिद्धं चतुर्गुणजल पके पूते च शीते च क्षौद्रपादयुतं घृतं लेहयेत् ! वासाघृतं दाधिकं धृतं अषणञ्चैव घृतं पिबेत् ॥४८॥
चक्रपाणिः-तेजोवत्यादौ तेजोवती चविका। हिङ्गु पादैरित्यस हिङ्गपादशब्देन हिङ्गरेकद्रव्यापेक्षया शाणमानो गृह्यते। तथापि अयमेव प्रयोगो हारीतेन एतानि तेजोवतीत्यादि पटित्वा उक्तः-कल्कैरतैरक्षसम्मितः हिङ्ग शाणेन संयुतैः घृतप्रस्थं विपाचयेत् इत्यादि ॥ ४६॥ ४७॥
चक्रपाणिः-वासाघृतमिति गुल्मोक्तम् । यषणमिति अषणं विफलामित्यादिना यषणसंज्ञयैव कासचिकित्सिते वक्ष्यमाणम् ॥ १८ ॥
For Private and Personal Use Only