________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००२
चरक-संहिता। हिक्काश्वासचिकित्सितम् कामं प्राणहरा रोगा बहवो न तु ते तथा। यथा श्वासश्च हिक्का च प्राणानाशु निकृन्ततः॥ अन्यैरप्युपस्पृष्टस्य रोगैर्जन्तोः पृथग्विधैः। अन्ते सञ्जायते हिका श्वासो वा तीनवेदनः ॥ कफवातात्मकावेतो पित्तस्थानसमुद्भवौ। हृदयस्य रसादीनां धातूनाञ्चोपशोषणौ ।। तस्मात् साधारणावेतौ मतौ मम सुदुजयो। मिथ्योपचरितौ ऋछौ हत आशीविषाविव ॥ पृथक् पञ्चविधावेतौ निर्दिष्टौ रोगसंग्रहे।
तयोः शृणु समुत्थानं लिङ्गञ्च सभिषगजितम् ॥३॥ परमप्रीतः परमार्थ विनिश्चयमुवाच। यदुवाच तदाह-काममित्यादि। कामं यथाभिलासात् पाणहरा रोगा ज्वरातिसारादयो बहवः सन्ति, ते रोगास्तथा प्राणहरास्तु न भवन्ति यथा श्वासश्च हिक्का चेति द्वौ रोगावाशु प्राणान् निकृन्ततः। कस्मादित्यत आह-अन्यरित्यादि। यतोऽन्यैः पृथग्विधैः रोगैलरातिसारादिभिरुपसृष्टस्यापि जन्तोरन्तेऽवसानविषये हिक्का सञ्जायते, तीव्रवेदनः श्वासो वा सञ्जायते। दुर्जयसमाह-कफेत्यादि । एतौ हिकावासो कफवातात्मको, किन्तु पित्तस्थानसमुद्भवौ, हृदयस्य रसादीनां धातूनां प्राणायसनानां यत उपशोषणौ, तस्मात् साधारणौ द्वावेतौ हिक्कावासो सुदुर्जयो मम मतौ । यतश्चैतौ मिथ्योपचरितौ क्रुद्धावाशीविषाविव हतः प्राणान् नाशयतः । ननु कथमुपचरितौ भवतः क्रुद्धौ च न भवतः न चाशीविषाविव हत इत्यतस्तयोरुपाचरं चिकित्सितमाह-पृथगित्यादि। रोगसंग्रहे सूत्रस्थानेऽष्टोदरीये पश्च श्वासाः पञ्च हिक्का इत्येतौ पञ्चविधौ उद्दिश्य, पञ्च श्वासा इति महोईच्छिन्न
चक्रपाणिः-काममित्यनुमताः । बहव इति ज्वरशङ्खकरोहिण्यादयः। यथा श्वासश्च हिक्का च इत्यनेन शीघ्रं प्राणहारित्वं हिक्काश्वासयोः दर्शयति । अन्त इति मरणसमये । संजायते इति अवश्यं हिक्कावासयोरन्यतरो जायते। पित्तस्थानसमुद्भवावित्यनेन पित्तस्य ऊर्द्ध स्थानसम्बन्धेन एव न तु वातकफवदारम्भकत्व दर्शयति । पित्तस्थानशब्देन आमाशयोऽभिप्रेतः। साधारणाविति प्रायः तुल्यचिकित्स्यत्वात् । माशीविषाविव दृष्टिनिश्वासविषरूपी इव। मिथ्योपरितोऽन्योऽपि रोगो हन्ति
For Private and Personal Use Only