SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६२ चरक-संहिता। पाण्डुरोगचिकित्सितम त्रिफला द्वे हरिद्र च कटुरोहिण्ययोरजः। चूर्णितं मधुसर्पिा लेहयेत् कामलापहम् ॥ ३२॥ द्विपलांशां तुगाक्षीरी नागरं मधुयष्टिकाम् । प्रास्थिकीं पिप्पली द्राक्षां शर्करा तुलां तथा ॥ धात्रीफलरसद्रोणे चूर्णितं लेहवत् पचेत् । शीतान्मधुप्रस्थयुतात् लिह्यात् पाणितलं ततः ।। हलीमकं पाण्डुरोगं कामलाञ्चैव नाशयेत् । आत्रेयकीर्त्तितरत्वेष धात्रीलेहः परः स्मृतः॥३३॥धात्रावलेहः । * ाषणं त्रिफलां चव्यं चित्रकं देवदारु च। विड़गान्यथ मुस्तञ्च वत्सकञ्चेति चूर्णयेत् ॥ मण्डूरतुल्यं चूर्णन्तु गोमूत्रेऽष्टगुणे पचेत् । शनैः सिद्धास्तथा शीताः कार्याः कर्षसमा गुड़ाः॥ तिस्रश्चूर्णिताः सौद्रसर्पिषा कामली लिह्यादथवा अभयां चूर्णितां गुड़ौद्रेण लिह्यात् । त्रिफलेत्यादि। स्पष्टार्थम् ॥ ३२॥ ____ गङ्गाधरः-द्विपलांशामित्यादि-तुगाक्षोरी द्विपलांशा, नागरादिचतुष्टयं प्रत्येक मास्थिकं, शर्कराद्धतुला, धात्रीफलरसस्य द्रोणश्चतुःषष्टिः शरावाः। सर्वमेतदेकत्र लेहवत् पचेत् । अवतार्य शीते मधुनः प्रस्थं दद्यात् । मधुप्रस्थश्वतुःशरावः। धात्रावलेहः ॥३३॥ - गङ्गाधरः-अषणमित्यादि। वत्सकमिन्द्रयवः, एतदन्तं सर्व समांशं चक्रपाणिः-द्विपलांशामित्यादौ द्राक्षा प्रास्थिकी। धात्रीफलरसो धात्रीस्वरसः ॥ ३२ ॥ ३३॥] चक्रपाणिः-बेषणादीनामष्टाविंशतिपलानि, मण्डरञ्च द्विगुणम् समुदितं चूर्णं चतुरधिकाशीतिपलमानं भवति । पृथगिति पाठात् मण्डूरं चूर्णमेव (गोमूत्रञ्च मिलितचूर्णापेक्षयाष्टगुणम् ।) • वयषणं त्रिफला मुस्तं विड़झं चयचित्रको। दात्विङ्माक्षिको धातुम्रन्थिकं देवदारु च ॥ एषां द्विपलिकान् भागांश्चूर्ण कृत्वा पृथक पृथक् । मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम् ॥ मूत्रे चाष्टगुणे पत्तवा तस्मिंस्तु प्रक्षिपेत्ततः। उडु म्बरसमान् कुर्य्याद् वटकांस्तान् यथावलम् ॥ उपयुञ्जीत तक्रेण सात्म्यं जीण च भोजनम् । मण्डूरवटका हेरते प्राणदाः पाण्डुरोगिणाम् । कुशल्पजरकं शोथमूरुस्तम्भं कफामयान्। अर्शीसि कामलां मेहान् प्लीहाणं शमन्तिश्च ॥ इति चक्रसम्मतः पाठः। मन्डूरयटका। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy