________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Kailassagar
२९२०
चरक-संहिता। (ग्रहणीदोषचिकित्सितम् सप्तभिर्देहधातारो धातवो द्विविधं पुनः। यथाखमग्निभिः पाकं यान्ति किट्टप्रसादतः ॥ १०॥ रसाद रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च ।
अस्थ्नो मज्जा ततः शुक्र शुक्राटु गर्भः प्रसादजः॥११॥ - गङ्गाधरः-अनेन प्रकारेणाभ्यवहृतादनात् पकात् भौमादयो गुणा देहे भौमादिगुणपोषका भवन्तु, देहस्तु कुतः पुष्यतीत्यत आह–सप्तभिरित्यादि। देहधातारो देहधारका रसादयो धातवो यथास्वं स्वैः स्वैः सप्तभिरग्निभिः किटप्रसादतो द्विविधपाकं यान्ति ॥१०॥ . गङ्गाधरः-तत्र प्रसादपाकमाह-रसादित्यादि। आहाराज्जाठराग्निना पक्कात् प्रसादांशभूतो यो धातुर्जायते स खाद्यो रसनामा धातुस्तस्माद् रसात् स्वगताग्निना पकात् प्रसादांशभूतं रक्तं जायते, ततो रक्तात् स्वगताग्निना पकात् प्रसादांशभूतं मांसं जायते, मांसात् स्वगताग्निना पकात् प्रसादांशभूतं मेदो जायते, ततो मेदसः स्वगताग्निना पकात् प्रसादांशभूतमस्थि जायते, अस्थोऽपि स्वगताग्निना पकात् प्रसादांशभूतो मज्जा जायते, ततो मज्ज्ञः स्वगतामिना पकात् मसादांशभूतं शुक्रं जायते, शुक्रमपि स्वगतामिना पर
पक्रपाणिः-भूताग्निब्यापारं दर्शयित्वा धात्वग्निव्यापारं दर्शयनाह-सप्तमिरित्यादि । देहधातार इति विशेषेण देहधारकाः। द्विविधमिति द्विप्रकारं पाक, तदेव प्रकारद्वयमाह। विटप्रसादवदिति किट्टप्रसादरूप इत्यर्थः। शुक्रस्य तु किट्टवान् पाको न भवति, तथापि बाहुना किट्टवत्त्वात् द्विविधमिति निर्देशश्छत्तिणो गच्छन्तीति न्यायाजज्ञेयः । पुनरिति जाठराग्निपाकानन्तरं पाकजन्यानाम् रसादीनाम् उत्पादः ॥ १०॥
चक्रपाणिः-क्रमेणाह-रसादित्यादि। रसानक्तं प्रसादनं, ततो रक्तान्मांसं प्रसादनं, मांसान्मेदः प्रसादनमित्यादि, यावच्छकात्। प्रसादशब्देन रसादिभ्यः प्रसादांशजन्या रक्कदियः किटांशजन्यास्तु वक्ष्यमाणाः कफादय इति। शुक्रात् तु निर्मलतया प्रसादज एवं गौं भवति न तु मला जन्यते। केचित् तु शुक्रमलतया श्मश्रूणि वदन्ति, तन्न, तन्त्रेऽनभिधानात् । यदि शुक्रमलः इमभूणि तदा स्त्रीणामपि शुक्रतया ३मश्रूणि स्युः। रक्तादयो हि गर्भप्रभृत्येव पोष्यन्ते। तत च सिधा तूत्पादं वर्णयन्ति। यद्रसः स्वाग्निपच्यमानः रक्ततां याति रक्तं मांसतामित्याह-रसादिति । पूर्वपूर्वधातुपरिणामात् उत्तरोत्तरधातूत्पादः। यथा क्षीराद दधि भवति दक्षो नवनीतं नवनीताद धृतं घृतात् घृतमण्डः इत्येकः पक्षः। किंवा
* किहप्रसादवत् इति चकिः।
For Private and Personal Use Only