________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्यायः] चिकित्सितस्थानम्।
२६१६ खल्वाप्ये द्रवस्निग्धशीतमन्दसरसान्द्रमृदुपिच्छिलरसगुणा देहे तानेवाप्यान् गुणान् पोषयन्ति। आग्नेये खन्नेऽप्याने या गुणा उष्णतीक्ष्णसूक्ष्मलघुरुक्षविशदरूपगुणा देहे तानेवाग्नेयगुणान् पोषयन्ति। वायव्येऽन्ने वायव्यगुणा लघुशीतरुक्षखरविशदसूक्ष्मस्पर्शगुणा दहे तानेव गुणान् पोषयन्ति। नाभसे चान्ने नाभसा मृदुलघुसूक्ष्मश्लक्ष्णशब्दगुणा दहे तानेव गुणान् पोषयन्तीति कृत्स्नश इति पदेनोक्तम्। अन्नं हि पार्थिवमशितं त्रिधा विधीयत पाकात्। तत्र स्थूलतरो धातुः पुरीषं भवति, मध्यमो मांसमणुतमो मन इति । आप्यमन्नं पीतं त्रिधा भवति पाकात्। तत्रापां यः स्थूलतरो धातुस्तन्मूत्रं भवति, यो मध्यमस्तद् रक्तं, योऽणुतमः स प्राण इति । तैजसमन्नमशितं त्रेधा विधीयते। तत्र तेजसो यः स्थलतरो धातुस्तदस्थि भवति, यो मध्यमः स मज्जा, योऽणुतमः सा वागिति। अन्नमयं सौम्यमनः, आपोमयः प्राणस्तेजोमयी वागिति। तत्र मनः एतत्स्थूलशरीरारम्भे गर्भाशयगतं शुक्रात्तवमनुप्रविश्य सूक्ष्मशरीरात्मा पूर्व स्वस्थितानि पञ्च महाभूतानि विकुर्वन् पञ्च भूतानि यथा सृजति तैश्च दशेन्द्रियाणि सृजति, तथा सत्त्वादींश्च श्रीन गुणान् विकुर्वन् सत्त्वादीन सृजति। तान् गुणान् सूक्ष्मशरीरस्थं त्रिगुणात्मकं मनः प्रविश्यास्मिन् स्थूलशरीरे स्थलं मनो भवति, तदव मनो भौमाहारद्रव्यस्थसत्त्वादिगुणाः स्थूलरूपाः पकाः पोषयन्तीति न मनो भौतिकम्। मनश्चात्मजादिषु शारीरे स्वयमुक्तम् । तथा पूर्वमुक्तं विविधाशितपीतीये। "पुष्यन्ति वाहाररसाद रसरुधिरमांसमेदोऽस्थिमज्जशुक्रोजांसि पञ्चेन्द्रियद्रव्याणि धातुप्रसादसंज्ञकानि” इति। तेन प्रसादांशादिन्द्रियाणि पुष्यन्ति। इति ॥९॥
उक्तब जाठरेणाग्निना पूर्व कृते संघातभेदे पश्चादपूताग्नयः पञ्च स्वं स्वं द्रव्यं पचन्ति । अयञ्च भूताग्निव्यापारो धातुष्वप्यस्ति । तेन धातुष्वपि पञ्च मूतानि सन्ति। तत्रापि धारवग्निव्यापारो भूताग्निच्यापारश्च जाठराग्निक्रमेणैवोक्तो: ज्ञेयः। अग्निपक्कानाहारगुणानाह-यथास्वमिति। यथास्वं यदयस्यात्मीयम्। सजातीया द्रव्यगुणा द्रव्यगुणान् पुष्णन्ति । तेन द्रव्याणि पार्थिवादिद्रव्यरूपाणि देहधातुदोषमलाख्यानि पुष्णन्ति, गुणास्तु पाकस्थितगन्धस्नेहोष्ण्यगौरवादयः देहगन्धस्नेहोष्ण्यगौरवादीनि पुष्णन्ति । यथास्वमित्यादिशब्दार्थ स्फोरयति-पार्थिवा आहारद्रव्यगुणाः देहगतान् पार्थिवानेव द्रव्यगुणान् पुष्णन्ति। आहारद्रव्यगुणा इत्यत्र द्रव्यगत. गुणा एव उच्यन्ते। द्रव्यपोषणन्तु गुणपोषणेन लभ्यते गुणपोषणं द्रव्यपोषणमन्तरा कत्त. मशक्यत्वात् ॥९॥
For Private and Personal Use Only