SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६०३ . चरक-संहिता। [अश्चिकित्सितम् समामधुकाभ्यां तिलमधुकाभ्यां रसाञ्जनघृताभ्याम् । सर्जरसघृताभ्यां निम्बघृताभ्यां मधघृताभ्याञ्च॥ दार्चीत्वसर्पिभ्यों सचन्दनाभ्यामथोत्पलघृताभ्याम् । दाहे क्लेदे च गुदभ्रंशे गुदजाः प्रतिसारणीयाः स्युः॥१०॥ आभिः क्रियाभिरथवा शीताभिर्यस्य न तिष्ठति रक्तम् । तं काले स्निग्धोष्णमांसरसैस्तर्णयेन्मतिमान् ॥११॥ अवपीडकसपिभिः कोणततैलिकैस्तथाभ्यङ्गः । क्षीरघृततैलसेकैः कोष्णैः समुपाचरेच्चाशु ॥ २॥ कोष्णेन वातप्रबले घृतमण्डनानुवासयेच्छीघ्रम्।। पिच्छावस्तिं दद्यात् काले तस्याथवा सिद्धम् ॥ ६ ॥ यवासकुशकाशानां मूलं पुष्पश्च शाल्मलम् । न्यग्रोधोडुम्बराश्वत्थ-शुङ्गाश्च द्विपलोन्मिताः ।। गङ्गाधरः-समङ्गत्यादि । समङ्गा मञ्जिष्ठा । सचन्दनाभ्यामिति सव्वत्राष्टसु योगेषु योज्यम् । द्वाभ्यां द्वाभ्यां सचन्दनाभ्यां त्रिभित्रिभिः अष्ट योगा। दाहे क्लेदे गुदभ्रंशे गुदजाः प्रतिसारणीया म्रक्षितव्याः इति ॥९०॥ ___ गङ्गाधरः-आभिरित्यादि। आभिः पूर्वोक्ताभिः क्रियाभिः शीताभिः यस्य न तिष्ठत्यर्शसो रक्तं तस्याथवा भोजनस्य काले स्निग्धोष्णः कुक्कुटादिमांसरसैर्मतिमान् भिषक् तर्पयेत् ॥ ९१॥ गङ्गाधरः-अवपीड़केत्यादि। अवपीड़कद्रव्यैः वटादिवल्कलेः काथकल्कः पकसर्पिरिभ्यङ्गः कोष्णैः घृततैलिक अभ्यङ्गः क्षीरघृततेलैः कोष्णः सेकैः आशु रक्तानिवृत्तौ समुपाचरेत् ॥ ९२॥ गङ्गाधर--कोष्णेनेत्यादि। वातप्रवलेऽतिरक्तप्रवृत्तौ घृतमण्डेन शीघ्रमर्शसमनुवासयेत् । अथवा तस्य यथाकाले सिद्धं पिच्छावस्तिं दद्यात् ॥१३॥ गङ्गाधरः-पिच्छावस्तियोगमाह- यवासेत्यादि। शाल्मलं शाल्मल्याः चक्रपाणिः-अधुना अशक्यरक्तस्त्रुतौ क्षीणधातुतर्पणार्थ वृहणमाह-आभिरित्यादि । तमिति स्रवद्रकं पुरुषम् । अवपीडकसर्पिः भोजनस्योद पीयते किंवा मूरिमात्रं सपिरवपीड़कमुच्यते ॥९०-९३ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy