________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः
चिकित्सितस्थानम् ।
२६०५ रक्त ऽतिवर्तमाने क्लेदे दाहे च सम्यगवगाहाः। मधुकामृणालचन्दनपद्मककुशकाशमूलनिक्काथाः॥ इक्षुरसमधुकवेतसनि!हे शीतले पयसि वातम् । अवगाहयेत् प्रदिग्धं पूर्व तैलेन शिशिरेण ॥८८॥ दत्वा घृतं सशर्करमुपस्थदेशे त्रिकदेशे च । शिशिरजलस्पर्शसुखधारा संस्तम्भनी योज्या॥ कदलीदलैरभिनवैः पुष्करपत्रश्च शीतजलसिक्तैः। प्रच्छादनं मुहुर्महुरिष्टं पद्मोत्पलदलैश्च ॥ दूर्वाघृतं प्रदेहं शतधौतं सहस्रधौतसर्पिः। व्यजनपवनः सुशीतो रक्तालावं जयत्याशु ॥ ८ ॥
गङ्गाधरः-रक्तऽतीत्यादि। प्रबलरक्तपित्तेऽशसि रक्ततिवर्तमाने क्लद दाहे च मधुकादीनां निकाथा व्यस्तसमस्तानां काथाः सम्यगवगाहाः प्रयोज्या बहुवचनात् । अमृणालमुशीरं, पद्मकं पद्मकाष्ठम् । इक्षुरसेत्यादि। इक्षुरसश्च मधुकवेतसनिय्यहाश्च मिलिते तक्रशीतले पयसि जले वा अतिवत्तमानरक्ते तमर्शसं पूर्व शिशिरेण शीतद्रव्यसाधितेन तैलेन प्रदिग्धमवगाहयेत् ॥ ८८॥ __ गङ्गाधरः-दत्त्वेत्यादि। उपस्थसमीपे सशर्करं घृतं दत्त्वा त्रिकदशे च सशर्करं घृतं दत्त्वा शिशिरजलस्य स्पर्शसुखस्य नातिशीतस्य धारा तदर्शोऽतिप्रवृत्तरक्तस्य संस्तम्भनी योज्या। कदलीत्यादि। अभिनवैः कोमलैः कदली. दलैः शीतजलासक्तैस्तथा पुष्करस्य पद्मस्य पत्रैः शीतजलसिक्तैः पद्मोत्पलदलैश्च श्वेतपद्मकुमुददलैश्च शीतजलसिक्तैमहुम्मु हुः प्रच्छादनमिष्टं दाहादिषु । दूर्वाधृतमित्यादि। दृस्विरसकल्कसिद्धं घृतं शतधौतं सपिः सहस्रधौतश्च सर्पिः प्रदेहं प्रदिह्यतेऽनेन। सुशीतलो व्यजनस्य तालव्यजनादिपवनः रक्तार्शसां रक्तास्रावमाशु जयति ॥ ८९॥
चक्रपाणि-शिशिरेण तैलेनेति शीतलद्रव्यसाधितेन तैलेन ॥ ८८ ॥ चक्रपाणि:-शिशिरेत्यादि । शिशिरजला च सुस्वस्पर्शात्, तेन तीवशीतत्वं निवारयति ॥८९॥ .
For Private and Personal Use Only