________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४शः अध्यायः] चिकित्सितस्थानम् ।
२८७५ विल्वकाथेऽथवा तक्र दधिमण्डाम्लकालिके। गोमूत्रे वा सुखोष्णे तं स्वभ्यक्तमवगाहयेत् ॥ २६ ॥ कृष्णसर्पवराहोष्ट्र-जतुकावृषदंशजाम् । वसामभ्यञ्जने दद्याद धूपनश्चार्शसां हितम् ॥ नृकेशाः सर्पनिम्मोको वृषदंशस्य चर्म च । अर्कमूलं शमीपत्रमर्शोभ्यो धूपनं हितम् ॥ तुम्बुरूणि विङ्गानि देवदार्वक्षतं घृतम् । वृहती चाश्वगन्धा च पिप्पल्यः सुरसा घृतम् ॥ वराहवृषविट चव धूपनं सक्तवो घृतम् । कुअरस्य पुरीषश्च घृतं स्वजरसो रसः ॥३० ।' हरिद्राचूर्णसंयुक्तं सुधाक्षीरं प्रलेपनम् । गोपित्तपिष्टाः पिप्पल्यः सहरिद्राः प्रलेपनम् ॥
अवगाहानाह–कोलेत्यादि । शुष्कबदरकाथे कोष्णे कोष्णे च सौवीरके तुषोदक वा विल्वकाथे विल्वमूलखरकाथे अथवा तक्र दधिमण्डेऽम्लकाञ्जिके च सुखोष्णे गोमूत्रे वा तं शूलार्त्तमर्शसं स्खभ्यक्तं चित्रतैलादिनाऽवगाहयेत् ॥२९॥
गङ्गाधरः-अथाशेसामभ्यङ्गमाह-कृष्णेत्यादि। जतुका चम्मैचटकः। कृष्णसादीनां वसामर्शसामभ्यञ्जने हितं दद्यात् तथासां हितं धपनश्च दद्यात्। धृपनमाह-नृकेशा इत्यादि। नृकेशादीनि समभागानि कुट्टयिखा अशोभ्यो हितं धूपनम्। अन्यच्च तुम्बुरूणीत्यादि। तुम्बुरूणि धान्यकानि अक्षतं यवतण्डुला अन्यैस्तण्डुल उच्यते। घृतान्तमेकं धूपनं पुनघृतान्तं द्वितीयं धूपनम्। वराहविट् वृषविद् सक्तवो घृतश्च धपनमेकम् । कुञ्जरस्य पुरीषं स्वजरसो धनकः रसः शिलारसः घृतमिश्रं धूपनम् ॥३०॥
गङ्गाधरः-अथ लेपनमाह-हरिद्रेत्यादि। सुधाक्षीरं स्नुहीक्षीरम् । गो.
चक्रपाणि:-जतुका धर्मचटिका, वृषदंशो विड़ालः, अक्षता इति खण्डिता यवाः। घृत. पादान्ताश्चत्यारो धूपाः । सर्जरसाभ्याञ्च पञ्चमो धूपः ॥ ३० ॥
For Private and Personal Use Only