________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्यायः] चिकित्सितस्थानम्। २८५८
इह खल्वग्निवेश द्विविधान्यशीस-कानिचित् सहजानि कानिचिजातस्योत्तरकालजानि। तत्र वीजं गुदबलिवीजोपतप्तमायतनमर्शसां सहजानाम् । तत्र द्विविधो वीजोपतप्तौ हेतुर्मातापित्रोरपचारः पूर्वकृतं कर्म तथान्येषामपि सहजातानां विकाराणाम् । तत्र सहजानि सह जातानि शरीरेणाशीसीत्यधिमांसविकाराः॥३ अर्शसामुत्पत्तिस्थानं लिङ्गं चिकित्सितश्च साध्यासाध्यविशेषांश्च पृष्टवान् । मुनिः पुनर्वसुस्तस्यानिवेशस्य सकाशे तान् सर्लान् अब्रवीत् ॥२॥
गङ्गाधरः-तद्यथा। इह खल्वित्यादि। इह मनुष्यलोके खल्वग्निवेश द्विविधान्यशीसि भवन्ति। कानिचित् सहजानि, यदा गर्भे शरीरं जायते तदैव सह शरीरेण जायन्ते। कानिचित् अशांशि जातस्योत्तरकालजानि। तत्र सहजानां हेतुमाह-तत्रेत्यादि। सहजानामर्शसामायतनं कारणं गुदवलिवीजोपतप्तं वीजं गुदवल्यारम्भकार्त्तवभागस्य वीजस्योपतप्तमिति यस्मात् तद्वीजोपतापः स्यात् तदाह-तत्रेत्यादि। गुदवल्यारम्भकात्तेवरूपवीजोपतप्तौ हेतुर्द्विविधो भवति। मातापित्रोरपचार एकः, पूर्वकृतं कर्म चाशुभं द्वितीय इति। सहजार्शःप्रसङ्गादन्येषामपि सहजानां रोगाणां हेतु संगृह्णाति--तथान्येषामपीति। अन्येषामपि सहजानां विकाराणां वीजभागोपतप्तौ द्विविधो हेतुर्मातापित्रोरपचारः पूच्चकृतश्च कर्म अशुभमिति। कस्मात् अशांसि सहजान्युच्यन्ते, मातापित्रोरपचारात् पूर्वकृत. कर्मफलाच कुष्ठादयो दृश्यन्ते, तेऽपि किं सहजा इति संज्ञायन्ते इत्यत आहतत्र सहजानीत्यादि। शरीरेण सह जातानीत्यतः सहजान्यांस्युच्यन्ते ।
चक्रपाणिः-इहेत्यादिना द्विविधान्यशीसि प्रतिपाद्यन्ते। सहजानि हेत्वादिना प्राक् । सत वीजमिति शुक्रशोणितांशः। तच्च गुदबल्यारम्भकेण वीजेनोपतप्तं सत् सहजानां कारणं भवति। गुदबल्यारम्भकेण च दुष्टेन वीजेन शरीरारम्भकस्य वीजस्य अदृष्टस्यासम्बन्धः । ततश्च गुदबलीबीजदोषात् गुदबलीष्वेवार्मोजन्म भवति । शेषावयवारम्भकं धीजम् अदुष्टत्वान्न विकारं जनयति । उक्तञ्च “यस्य यस्याङ्गावयवस्य वीजेन वीजभागः उपतप्तो भवति तस्य तस्य भङ्गावयवस्य विकृतिरुपजायते" इत्यादि। अन्ये तु आहिताग्निपाठात् पूर्वनिपात. नियमेन उपतप्तगुदबलीवीजम् इत्यस्मिन् गुबलीवीजोपतप्तमितिपदं कृतमित्याहुः। अपचार इति अनुचित आहारविहाररूपः शुक्रशोणितभागविशेषत्वदूषकः। पूर्वकृतञ्च कम्मति जायमानस्य सहजस्याशयॊऽभिनिर्धर्तकं जन्मान्तरीयं कर्म। तच्च कर्म दुर्बलं सत् मातापिनपचार
For Private and Personal Use Only