________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्दशोऽध्यायः। अथातोऽशंसां चिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रयः ॥ १॥ आसीनं मुनिमव्यग्र कृतजाप्यं कृतक्षणम्। . पृष्टवानशंसां मुक्तिमग्निवेशः पुनर्वसुम् ॥ प्रकोपहेतं स्वस्थानं लिङ्गमञ्च सचिकित्सितम् ।
साध्यासाध्यविशेषांश्च तस्य तान् मुनिरब्रवीत् ॥२॥ गङ्गाधरः- अतः परमनिवेश-कृततन्त्रस्य नाधुना।
चरकप्रतिसंस्कारः प्राप्यते कापि चेष्टया। तस्मात् काश्यां पञ्चनदे वसन् दृढ़बलः कविः । शिवमाराध्य यत्नेन प्रसादं प्राप्य शूलिनः। उद्दिष्टानुक्रमेणेव प्रतिसंस्कृतवान् पुनः।
तमेवाग्निवेशतन्त्रं सिद्धिस्थानान्तमेव च ॥ अथ क्रमोद्दिष्टवात् उदरचिकित्सितादुत्तरमौरोगचिकित्सितमाह-अथात इत्यादि। पूर्ववत् सर्वं व्याख्येयम् ॥१॥
गङ्गाधरः-आसीनमित्यादि। पुनर्वसुमात्रेयं मुनिमव्यग्रं वकृत्यकरण व्यग्रतारहितं कृतजाप्यं जपकरणमन्त्रादिजपं कृतवन्तं कृतक्षणमध्यापनक्षणमवधा-सीनं गुरुमग्निवेशोऽर्शसां मुक्ति मोचनं चिकित्सितं पृष्टवान्। कां मुक्तिं पृष्टवान् इत्यत आह--प्रकोपेत्यादि। अर्शसां प्रकोपहेतु स्वस्थानम्
चक्रपाणिः-उदरार्शसोस्त्रिदोषजत्वसामान्याद् बद्धगुदोदरकारणाच अनन्तरमर्शसां चिकित्सितं ते ॥१॥
चक्रपाणिः-आसीनमित्यादि। कृतक्षणमिति कृतावसरम्। मुक्तिमिति रोगोन्मुक्ति किंवा प्रकोपहेत्वादिं पप्रच्छेति योजना । प्रकोपस्य रोगोत्पादस्य हेतुः। तथाह्यत प्रकोपशब्देन रोगोत्पादं शापयति ; यथा-"पित्तोल्वणानां विज्ञेयः प्रकोपे हेतुरर्शसाम्"। संस्थानमाकारः। संस्थानं यद्यपि लिक एवं प्रविशति तथापीह बहुप्रपञ्चत्वाद् बहूञ्चत्वात् संस्थानं पृथगुक्तम् ॥ २॥
For Private and Personal Use Only