________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३श अध्यायः
चिकित्सितस्थानम् ।
२८२१ - तस्य रूपाणि-सर्वेषामेव दोषाणां समस्तान्युपलभ्यन्ते लिङ्गानि वर्णाश्च सर्वे नखादिषु। उदरमपि च नानावर्णराजीसिरासन्ततं भवति। इत्येतत् सन्निपातोदरमिति विद्यात् ॥ १७॥
अत्याशितस्य संदोभाद् यानयानातिचेष्टितैः । अतिव्यवायभाराध्व-वमनव्या धिकर्षणैः॥ वामपार्धाश्रितः प्लीहा च्युतः स्थानात् प्रवर्द्धते।
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्द्धयेत् ॥ तस्य प्लीहा कठिनो नीरुजो ® वर्द्धमानः कच्छपसंस्थानः
गङ्गाधरः-तस्य रूपाणीति सन्निपातोदररूपाणि। सव्वषामित्यादि । सर्वेषां वातोदर पित्तोदरश्लेष्मोदराणां समस्तानि मिलितानि लिङ्गान्युपलभ्यन्ते यत्र वर्णाश्च सर्वे नखादिषु उपलभ्यन्ते। अपि चोदरं नानावर्णराजीसन्ततं नानावर्णसिरासन्ततश्च भवति। इत्येतत् सन्निपातोदरमिति विद्यात् ॥१७॥
गङ्गाधरः-प्लीहोदरमाह-अत्याशितस्येत्यादि। अतिभुक्तवान् सन् यदि संक्षोभणं कर्म यानादिभिः शरीरसञ्चालनं कर्म करोति। अतिव्यवायादिनाकर्षणैश्च नृणां वामपार्थाश्रितः प्लीहा नाम नाड़ीविशेषः स्थानाच्च्युतः सन् प्रवद्धते। अथवा रसादिभ्यो मधुरस्निग्धाद्याहारेभ्यो रक्तवर्द्धनेभ्यो विठ्ठद्धं रक्तं तं प्लीहानं विवर्द्धयेत् । तस्य प्लीहा कठिनो भवति, क्रमेण
चक्रपाणिः-वर्णाश्च सर्वेषां दोषाणामिति सम्बन्धः। इह सकललक्षणमेलकाभिधानभव मखादिवर्णश्च। सर्वेश्च नानावण। राज्यश्च यद्यपि गृहीतास्तथापि तद्विधानम् अवश्योत्पाददर्शनार्थम् ॥ १७॥
चक्रपाणिः-लोहवृद्धिद्विधा संक्षोभादिच्युतस्य वा वृद्धिरच्युतस्य वा शोणितवृद्ध्या वृद्धिर्भवति । धामपार्धाश्रित इति प्लीहस्वरूपकथनम्। शोणितं वा रसादिभ्य इत्यवादिशब्दः प्रकारवाची। तेन रसस्य कारणस्य वृद्धया कार्यस्य रक्तस्य वृद्धिस्तथा मांसादिभ्योऽपि रक्तवृदिर्भवति, आहारविहारेभ्यो रक्तवृद्धिका भवति । प्रथमं या च्युतस्य वृद्धिरुता सा वातादिसन्निपातत्वेन चतुर्विधा • "नीरुजः" इत्यत्र “अष्ठीलेवादौ" इति चक्रेण पठ्यते।
३५४
For Private and Personal Use Only