________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०२
चरक-संहिता। . [श्वयथुचिकित्सितम् जलैस्तथैर ण्डवृषार्कशिघु-काश्मर्यार्जकडेश्च सिद्धः । खिन्नः कवोण रवितप्ततोयैः स्नातश्च गन्धैरनुलेपनीयः ॥ ४२ ॥ सवेतसाः क्षीरवतां द्रमाणां त्वचः समाञ्जिष्ठलतामृणालाः। सचन्दनाः पद्मकबालकौ च पित्ते प्रदेहस्तु सतलपाकः ॥ आक्तस्य तेनाम्बु रविप्रतप्तं सचन्दनं साभयपद्मकञ्च । नाने हितं क्षीरवतां कषायः क्षीरोदकं चन्दनलेपनञ्च ॥ ४३ ॥ मुस्तकं, पत्रं तेजपत्रं, पृका पिङ्ग इति लोके। नखो व्याघ्रनखो हिंसा। एषां यथोपलाभं गृहीला तेलपादिकं कल्कीकृत्य चतुर्गुणजले सिद्धं पक तेलं वातान्विते शोथेऽभ्यङ्गमुशन्ति । पिष्टैरप्येतैर्वातान्विते प्रदेहमुशन्ति । शैलेयादितैलप्रदेहौ ॥४१॥ . गाधरः-जलैरित्यादि । एरण्डादिकाश्मर्यान्तानां पत्राणि, तथाजकस्य पर्णाशस्य मूलादि, तेभ्यो जातैः पक्वैः कवोष्णैर्जले स्विन्नः कोष्ठं पूरयिता तन्मध्येऽवगाहनं कुर्यात् यावत् स्विन्नः स्याद घागमः म्यात् । तत उत्थाय रवितप्ततोयैः स्नातच वातोत्थितशोथी गन्धेरुशीरादिभिरनुलेपनोयः॥ ४२ ।।
गङ्गाधरः-सवेतसा इत्यादि। पैत्ते शोथे क्षीरवतां बटोडम्बराश्वत्थप्लक्ष. कपीतनानां द्रमाणां वचः सर्वतसा वेतसतरुत्वक् माञ्जिष्ठा लता चोशीरश्च रक्तचन्दनं पत्रकाष्ठं बालकं सर्व समभागेन पिष्ट्वा प्रदेहः काय्यः । तथा सर्व कल्कीकृत्य तेषां काथे च चतुगुणे तैलपाकः काय्यः। इति स्नेहप्रदेहो पैत्ते।
परिषेचनमाह-आक्तस्येत्यादि। तेन सवेतसादिपकतेलेनाक्तस्याभ्यक्तस्य पैत्तिकशोफिनः स्नाने घृष्टचन्दनपेषितोशीरपद्मकाष्ठयुक्तमम्बु रविकरतप्तं हितम् । तथा क्षीरवतां द्रमाणां बचां कषायश्च तस्य स्नाने हितः । क्षीरोदकञ्च स्नाने हितम् । स्नातस्य तस्य श्वेतचन्दनघृष्टानुलेपनञ्च हितमिति। स्वेदस्तु पैत्ते नेष्ट इति नोक्तः॥४३॥
चक्रपाणिः-रविणा सूर्येण तसतोयैश्च स्नातः। गन्धेरणु दिभिरालेपनीयः ॥ ४॥ ..' चक्रपाणिः-सवेतसा इत्यादिमा पैत्ते प्रदेहमाह । कीरिद्र मा भश्वथादयः। सैकपाक इति मजिष्ठादिभिरेव काथकरकेन स्नेहः कर्तव्यः। सचन्दममित्यादौ चन्दनोशीरं पार्क शुभमित्यर्थः ॥ ५३॥
For Private and Personal Use Only