________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९म अध्यायः
चिकित्सितस्थानम् । २७२१ अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः। उन्मादकालोऽनियतश्च यस्य भूतोत्थमुन्मादमुदाहरेत् तम् ॥१२॥ अदूषयन्त पुरुषस्य देहं देवादयः स्वैस्तु गुणप्रभावः। विशन्त्यदृश्यास्तरसा यथैव छायातपो दर्पणसूर्यकान्तौ ॥१३॥ आगन्तुभ्यो हेतुभ्यो जायते य उन्मादः स खलु दोषजेभ्यो निदानपूच्चरूपरूपवेदनोपशयविशेषान्वित आगन्तुज उच्यते॥११॥ - गङ्गाधर --तद्विशेषानाह–अमत्येत्यादि। अमर्त्या देवादयस्तेषां वाचोऽनुकारेण वाचं यो वक्ति विक्रमानुकारेण विक्रामति वीर्यानुक्रमेण वीय्यप्रकाश करोति चेष्टानुरूपेण चेष्टते च, य एवम्भूतो शानादिभिरपि देवादीनाममानां विशिष्टः। इत्येके व्याचक्षते। शानं तस्मिंस्तदिति लोके तत्त्वतो ज्ञानं स्थाणौ स्थाणरिति, आदिना पारमार्थिकतत्त्वतो शान, विज्ञानं शिल्पविषयशास्त्रविषयशानपिति। अथवा ज्ञानं बुद्धिस्तर्कवितर्कविचारादितो निश्चयात्मिका यया व्यवस्यति कत्तुं वत्त वा । आदिना धृतिस्मृत्यहङ्काराः। विज्ञानं प्रज्ञा पारमाथिकतत्त्वज्ञानमात्मादिचतुविंशतितत्त्वतन्मयस्थावरजङ्गममिदं सर्व मिथ्याभूतं लोके सत्यमिति । बलं सामर्शम् । आदिना पौरुषग्रहणधारणादि । एभिरेवामर्त्यवाग्विक्रमवीर्य चेष्टावान् यः पुरुषः खलु शानतोऽमर्त्यवद्वक्ति स्मृतितो धैर्यतश्चाहङ्कारतश्चामर्त्यवद्वक्ति तथा विज्ञानतश्चामर्त्यवद्वक्ति बलतश्चामर्त्यः वद्विक्रामति वीर्यश्च शक्तिं दर्शयति तथा चामर्त्यवद्धलतश्चेष्टते । तथोन्मादकालो यस्य तस्यैव पुरुषस्यानियतस्तं भूतोत्थमुपादमुदाहरेत् इति सामान्यं भूतोन्मादलक्षणम् । भूतानि देवादयो ग्रहाः। उक्तश्च सुश्रुते । “गुह्यानागतविज्ञानमनवस्था सहिष्णुता। क्रिया वाऽमानुपी यस्मिन स ग्रहः परिकीर्त्यते॥" इति ॥१२॥ .. गङ्गाधरः-ननु देवादयः कथं गृह्णन्ति न च दृश्यन्त इत्यत आह–अदूषयन्त इत्यादि। देवादयो ग्रहाः पुरुषस्य देहमदृषयन्त एव स्वैगुणप्रभावैरदृश्या एव - चक्रपाणिः- अमर्त्यत्यादिनागन्तूनां सामान्यलिङ्गान्याह। भमत्त्यैरमनुष्यैर्वागादिभिर्लक्षित भृतोत्थमुदाहरेत् । अनियत इति वातिकादिवत् आहारजीर्णादिकालवन कालनिश्चयः। ये तु नियत इति पठन्ति, तेषां वक्ष्यमाणनियततिथ्यादीनां ग्रहणमभिप्रेतम् ॥ १२॥ .. .. .
चक्रपाणि:-अदूषयन्त ईषद दूषयन्तः । गुणप्रभावैरिति अनियमादिगुणप्रभाव।। वरस्म
For Private and Personal Use Only