________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६२८
चरक संहिता |
।
व्यायाममति सन्तापमति भुक्त्वा निषेविणाम् । शीतलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम् || धर्मश्रमभयार्त्तानां द्र्तं शीताम्बुसेविनाम् ।
अजीर्णाध्यशिनाञ्चैव
पञ्चकर्मापचारिणाम् ॥
नवान्नदधिमत्स्याति-लवणाम्लनिषेविणाम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ कुष्ठचिकित्सितम्
मामूलक पिष्टान्न - तिलतीर गुड़ाशिनाम् ॥ व्यवायञ्चाप्यजीर्णेऽन्ने निद्राञ्च भजतां दिवा । विप्रान् गुरून् धर्षयतां पाएं कर्म्म च कुर्व्वताम् ॥ व्यायाममतीति । भुक्त्वा व्यायाममतिशयेन भुक्त्वा सन्तापमतिशयेन निषेविणाम् । व्यायाममति सन्तापमतीत्यतिशब्दयोगे द्वितीया, तेन निषेविणामित्येतयोव्यायाम सन्तापयोरतिनिषेविणां निषेवणशीलानामिति । कुद्योगे षण्डी न प्राप्तेति कश्चित् तन्न कारकविभक्तेर्बलवत्त्वादतिशब्दयोगे द्वितीया बाध्या हि स्यात् कारकविभक्त्या षष्ठ्या । वस्तुतो निषेविणामिति शीलार्थे णिनिस्तयोगे षष्ठी aayaादविधिसिद्धात्रोत्सर्गेण विधिना सिद्धया द्वितीयया वाधिता । एवं परत्रापि बोध्यम् । शीतोष्णादीन क्रमं त्यक्त्वा निषेविणां यदा येन प्रकारेण शीतादीनां सेवनमुक्तं तत्क्रमविपर्ययेण शीतादीन सेवनशीलानामित्यर्थः । धर्मेत्यादि । धर्म्मश्रमभयैरार्त्ताः सन्तो य द्रुतं शीताम्बु सेवन्ते तेषामित्यर्थः । अत्र आप after | अजीर्णाध्यशिनामिति । अजीर्ण भुक्तमपकमन्नम्, अजीर्ण नशा जीर्णे तनिशायाम जीर्णे दिवा पुनर्भोजनशीलानामधि च पूर्व दिनाहाराजीर्णे अशिनामशनशीलानाम् । पञ्चकर्मापचारिणामिति । क्रियमाणेषु पञ्चसु । साप स्नेहस्वेदसहितेष वमनविरेचननिरूहानुषासन शिरोविरेचनेषु यदुपचारोभिहितस्तदुपचारं विहायापचारं कत्तु शीलानाम् । नवान्नदधीत्यादि । अत्रातिशब्दः सव्वैः संवध्यते । मसूरादिनिषेविणां तथा अजीर्णे विदग्धामविष्टब्धान्यतरेऽन्ने सति व्यवायं मैथुनं भजतां, दिवा च भुक्तवतां निद्रां भजताम्, धर्षयतां शीतोष्णेत्यादि । शीताष्णादीनां यथाक्रमेण सेव्यत्वमुक्तम् तद्विपरीतेन सेविनाम्, एवं लङ्घनाहारयोरपि ज्ञेयम् । धर्मादिभिरार्त्तत्वे द्रुतमविश्रम्य शीताम्बुसेविनामिति योज्यम् । अजीर्णाशनमित्याममन्न तदभुञ्जानानाम् अध्यशिनमित्याहारेऽपरिणते भुञ्जानानाम् । पञ्चकर्मापचारिणामिति पञ्चकर्मणि क्रियमाणेऽपचारः पञ्चकम्मपिचारः । व्यवायञ्चाप्यजीर्णे इति विदग्धादिरूपेऽन्नेऽजीर्णे । पापं कर्म च कुर्वतामिति पापकम्मैणैव विप्रादिधर्षणे लब्धे पुनस्तद्वचनं विशेष हेतुत्वोपदर्शनार्थम् ।
I