________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः।
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः, इतिह
स्माह भगवानात्रेयः ॥१॥ हेतुं द्रव्यं लिङ्गं कुष्ठानामाश्रयं प्रशमनश्च ।
शृण्वग्निवेश सम्यग विशेषतः स्पर्शनघ्नानाम् ॥ २ ॥ विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च।
भजतामागतां छदि वेगांश्चान्यान् प्रतिघ्नताम् ॥ गङ्गाधरः-अथोद्देशानुक्रमात् प्रमेहचिकित्सितानन्तरं कुष्ठचिकित्सित. माह-अथात इत्यादि। कुष्ठस्य चिकित्सितं कुष्ठचिकित्सितम् । शेष पूव्वेवत् ॥१॥
गङ्गाधरः-हेतु मत्यादि। हेतुं रुग्दोषोभयकारणम् । द्रव्यं गुणकम्माश्रितसम्यायिकारणं घटादेमृत्तिकादिवत्, प्रकृतिभूतकारणमिति यावत् । स्पर्शननानामिति स्पर्शनेन्द्रियनाशनानां कुष्ठानाम् ॥२॥
गङ्गाधरः- तत्रादौ रुगदोषोभयहेतुमाह-विरोधीन्यन्नेत्यादि। विरोधीनि तु न मत्स्यान् पयसा सहाभ्यवहरेदित्यादिनोक्तानि, भजतामित्यन्वयः। आगतामुपस्थितवेगां छबि प्रतिघ्नतां प्रतिघातं कुर्चतामन्यांश्च वेगान् मूत्रपुरीषादीनां नवेगान्धारणीयोक्तानां वेगान् प्रतिघ्नताम् ।
चक्रपाणिः-स्नेहविप्रणाशान्मेहकुष्टयोर्जन्म उक्तम्, तेन मेहमनु कुष्ठचिकित्सितमुच्यते । निदाने हेत्वादय उक्ता अपि चिकित्सोपकरणतया किञ्चिद्विशेषप्रतिपादनार्थं पुनरुच्यते। आश्रयमिति कोष्ठाधारम् । प्रशमनञ्चेति चकारात् पूर्वरूपसंप्राप्त्योर्वक्ष्यमाणयोर्ग्रहणम् । किंवा लिङ्गेन हेतुना च सम्प्राप्तिर्बोदव्या। अन्याभ्यपि पिप्लुव्यङ्गादीनि स्पर्शनघ्नानि सन्ति, तेन विशेषतो यानि कुष्ठानि तेषां हेत्वादीनि शृण किंवा कुष्टानामानन्त्याद्यानि विशेषतः स्पर्शनधान्यष्टादश तेषां हेत्वादि शृष्विति योजना। उक्तं हि कुष्ठानि सप्तविधान्यष्टादशान्यपरिसंख्येय. विधानि चेति ॥१२॥
चक्रपाणिः-विरोधीन्यात्रेयभद्रकाप्यीये-न मत्स्यान् पयसाभ्यवहरेदित्यादिनोक्तानि ।
For Private and Personal Use Only