________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६१२
चरक संहिता ।
[ प्रमेहचिकित्सितभू
संशोधनोल्लेखनलङ्घनानि कालप्रयुक्तानि कफप्रमेहान् । जयन्ति पित्तप्रभवान् विरेकः सन्तर्पणः संशमनो विधिश्च ॥ १७ ॥ दासुराह्वात्रिफलाः समस्ताः कषायमुत्काथ्य पिबेत् प्रमेही । चौद्रेण युक्तामथवा हरिद्रां पिवेदु रसेनामलकीफलानाम् ॥ १८ ॥ हरीतकीकट्फलमुस्तलोध' पाठाविङ्गार्जुनधन्वनाश्च । उभे हरिद्र तगरं विड़ङ्ग कदम्ब शालार्जुनदीप्यकाश्च ॥ Goa विड़ङ्गं खदिरोधवश्च सुराह्वकुण्ठागुरुचन्दनानि । दाग्निमन्थी त्रिफला सपाठा पाठा च मूर्व्वा च तथा श्वदंष्ट्रा ॥ यमान्यशीराण्यभया गुडूची चव्याभयाचित्रक सप्तपर्णाः 1 पादैः कषायाः कफमेहिनां ते दशोपदिष्टा मधुसंप्रयुक्ताः ॥१६॥
गङ्गाधरः- संशोधनं विरेचनम् । उल्लेखनं वमनम् । लङ्घनञ्चैतानि बलवतां स्थूलानां कालप्रयुक्तानि विरेचना दियोग्यकाले प्रयुक्तानि कफप्रमेहान् जयन्ति इत्यन्वयः । तथा पित्तप्रभवान् प्रमेहान् विरेकः सन्तर्पणः संशमनो विधिश्चैते जयन्तीत्यन्वयः ॥ १७ ॥
गङ्गाधरः- अथ सामान्यतः सर्व्वमेहे कषायावाह - दावित्यादि । दाव दारुहरिद्रा, सुराहा देवदारु, त्रिफला मुस्तञ्चेत्येतेषां कषाय एकः । क्षौद्रेण युक्ताम् आमलकीफलानां रसेन हरिद्रां कल्कीकृत्य पिवेत् ॥ १८ ॥
गङ्गाधरः- हरीतकीत्यादिभिः पादैर्दशभिः दश कषाया मधुसंप्रयुक्ताः कफमेहिनाम्पदिष्टाः । लोभ्रान्तैश्चतुभिर्द्रव्यैरेकः कषायः । पाठादिधन्वनान्तैद्वितीयः । धन्वनो धान इति लोके । उभे हरिद्रे इत्यादिविङ्गान्तैश्चतुर्भिस्तृतीयः । कदम्बादिदीप्यकान्तश्चतुभिश्चतुर्थः । दार्व्वीत्यादिधवान्तैश्चतुर्भिः पञ्चमः । सुराहादिचन्दनान्तैश्चतुभिः षष्ठः । दावत्यादिपाठान्तैः षड़भिः सप्तमः । पाठादिभिस्त्रिभिरष्टमः । यमानीत्यादि । यमान्यादिगुडू च्यन्तैश्चतुर्भिर्नवमः । चव्यादिसप्तपर्णान्तैश्चतुर्भिः दशमः । कषाया इति कफमेह कषायाधिकारः ।।१९।।
चक्रपाणिः - संशोधनग्रहणेणैवोल्लेखे प्राप्त पुनर्वमनस्य कफजयप्रधानत्वख्यापनार्थमुल्लेखनपदेन वाच्यम् । अन्ये तूल्लेखं कफमेहेषु निक्षेपणमात्रम् । पित्तमेहानां याप्यत्वाज्जयन्तीतिपदेन पित्तमेवं प्रतिपादनमेवोच्यते किंवात्यन्तदुष्टे मेदसि पित्तानामपि असाध्यत्वम् । साध्यास्तु मेदो यदि न प्रदष्टमित्यनेन वक्तव्यास्तान् प्रति जयन्तीति साधु । दावीं सुराह्वे त्यातं योगद्वयं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only