________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
चिकित्सितस्थानम्। २५६१ रोहिणीकटुका मुस्ता त्रायमाणा दुरालभा। कल्कैस्तामलकीवीरा-जीवन्तीचन्दनोत्पलैः॥ रसस्यामलकानाञ्च क्षीरस्य च घृतस्य च। पलानि पृथगष्टाष्टौ दत्त्वा सम्यग् विपाचयेत् ॥ पित्तरक्तभवं गुल्म वीसपं पैत्तिकं ज्वरम् । हृद्रोगं कामलां कुष्ठं हन्यादेतद् घृतोत्तमम् ॥७८ ॥
इति त्रायमाणाद्य घृतम्। रसेनामलकेनूणां घृतप्रस्थं छ विपाचयेत् । पथ्यापादं पिबेत् सर्पिस्तत् सिद्धं पित्तगुल्मनुत् ॥ ७९ ॥
इति आमलकाद्य घृतम् । द्राक्षां मधूकं खजरी विदारी सशतावरीम् । परूषकाणि त्रिफलां साधयेत् पलसम्मिताम् ॥ जलाढके पादशेष रसमामलकस्य च।
घृतमिथुरसं क्षीरमभयाकल्कपादिकम् ॥ रोहिण्यादिकल्कैः प्रत्येकं कार्षिकैः सह संयोज्य आमलकरसं गव्यक्षीरं प्रत्येक मष्टपलं दत्त्वाष्टपलं घृतं सम्यग् विषाचयेत् । अत्र रोहिणीकटुका कटुरोहिणी। तामलकी भूम्यामलकी। वीरा शालपर्णी ॥ ७८॥ त्रायमाणाद्य घृतम् ।
गङ्गाधरः-रसेनेत्यादि। घृतप्रस्थमामलकस्य द्विपस्थरसेन इक्षोश्च द्विपस्थरसेन पथ्याया हरीतक्याः कल्कं शरावमितं दत्त्वा विपाचयेत् ॥७९॥
आमलकाद्य घृतम्। गङ्गाधरः-द्राक्षामित्यादि । द्राक्षा, मधूकं मधूकपुष्पम् । द्राक्षादीनां नवानां प्रत्येकं पलं मिलिखा नव पलानि जलाढके पोडशशरावजले साधयेत् । पादशेष चतुःशरावावशेष रसं काथम् आमलकस्य च रसं चतुःशरावम्, इक्षुरसञ्च
चक्रपाणिः-चतुःपलायां वायमाणायां दशगुणं जलं चत्वारिंशत्पलानि। कल्कैरिति तामलकादिभिः। कटरोहिण्यादयश्व कल्का इति योजनीयम् ॥ ७८ ॥
चक्रपाणिः-घृतपादमिति समुदितामलकेक्षुरसापेक्षया घृतस्य पादिकत्वम्। पथ्यापादम् इत्यत्र हरीतक्या गुरुत्वेन घृतापेक्षया पादत्वेनाष्टमो भागो भवतीति। एके तु “यस्माच पाद
* घृतपादमिति पाठान्तरम् ।
३२५
For Private and Personal Use Only