________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः]
चिकित्सितस्थानम् । २५०३. यञ्च नावनिक तैलं धूमवर्तिश्च या पुरा। मात्राशितीये निर्दिष्टा प्रयोजना सा ज्वरेष्वपि ॥ १५४ ॥ अभ्यगांश्च प्रदेहांश्च परिषेकांश्च कारयेत् । यथाभिलाषं शीतोष्णं विभजा द्विविधं ज्वरम् ॥ १५५ ॥ सहस्रधौतं सर्पिर्वा तैलं वा चन्दनादिकम् । दाहज्वरप्रशमनं दद्यादभ्यञ्जनं भिषक् ॥ १५६ ॥
अथ चन्दनादितैलमुपदेष्यामः।तद् यथा-चन्दन-शैलेयभद्रश्रिय- कालानुसार्य-भण्डी-कालीय-पद्मापद्मकोशीर-शारिवा___ यच्चेत्यादि। सूत्रस्थाने स्वस्थचतुष्के मात्राशितीयेऽध्याये यच्च नावनं. नावनीयमणुतैलं नाम चन्दनागुरुणी इत्यादिना यथोक्तान अश्नुते गुणानित्यन्तेन पदोन पुरा निद्दिष्ट तत् तैलं, तथा तत्रैवाध्याये या च धमवत्तिः शिरोविरेचनार्था निर्दिष्टा, सा च ज्वरेष्वपि प्रयोज्या॥१५४॥ __ गङ्गाधरः-अथाभ्यङ्गांश्च प्रदेहांश्चेत्यादिना यदभ्यङ्गादिविधानमुक्तं तेषां योगानाह-अभ्यङ्गांश्चेत्यादि। यथाभिलाषं शीतज्वरे उष्णमभिलपति उष्णदाहज्वरे शीतमभिलपतीत्यभिलाषमनतिक्रम्य शीतोष्णं द्विविधं ज्वरं विभज्य शीते ज्वरे उष्णान् अभ्यङ्गादीन् उष्णज्वरे शीतान् अभ्यङ्गादीन् कारयेत् ॥१५५
गङ्गाधरः-ननु कै व्यरित्यत आह-सहस्रधौतमित्यादि। सहस्रधोतं सर्पिश्चन्दनादिकं तैलञ्च दाहज्वरप्रशमनम् अभ्यञ्जनं दद्यात् ॥१५६॥ . - गङ्गाधरः-ननु किम्भूतं चन्दनादिकं तैलमित्यत आह–अथेत्यादि। चन्दनेत्यादि। पित्तप्रशमनखादत्रं चन्दनं रक्तम् । शालेयं मिषिजः। भद्रश्रियं श्रीखण्डचन्दनं श्वेतचन्दनमित्यथः। कालानुसायं शैलजम् । भण्डी भाण्डीति यच्च नावनिक तैलमित्यणुतैलम् । अभ्यङ्गांश्चेत्यादिना क्रमागत वहिःपरिनार्जनमाह। यथाभिलापमिति यथेच्छम् । शीतोष्णं विभज्येति शीतसमुत्थमुष्णसमुत्थञ्च ज्वरं विभज्य, तत्र शीत. समुत्थे उष्णाभ्यङ्गादयः उष्णे शीताः कर्तव्याः। अत्र च प्रतिलोमव्याख्यया शीताभिप्रायिणेऽभ्यङ्गादीनाह-सहस्रधौतमित्यादि। 'सहस्र'शब्दो विपुलार्थः। तेन अनेकधा धोतं सपिरित्यर्थः ॥ १५४-१५६ ॥
चक्रपाणिः-सूचितं चन्दनाय तैलंबते-अथेत्यादि । 'अथ'शब्दोऽधिकारे। चन्दनाय न द्रव्येण संस्कृतं तैलमपि चन्दनायमुच्यते । चन्दनं रक्तचन्दनम् । भद्रश्रियं श्वेतचन्दनम् । कालानुसायं
For Private and Personal Use Only