________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्याया
चिकित्सितस्थानम् ।
२४६३ पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणो। . कलिङ्गकास्तामलकी शारिवातिविषा स्थिरा॥ द्राक्षामलकविल्वानि त्रायमाणा निदिग्धिका । सिद्धमेतघृतं सद्यो जीर्णज्वरमपोहति ॥ गङ्गाधरः-पिप्पल्य इत्यादि। कलिङ्गका इन्द्रयवाः। तामलकी भूम्यामलकी। स्थिरा शालपर्णी। विल्वमिति विल्वमूलखक। त्रायमाणा जलवहला। एतैः कल्कीभूतैः कथितैश्च । तत्र काथो जलेन काय्यः । द्रवकार्येऽप्यनुक्ते तु सव्वत्र सलिलं मतमिति वक्ष्यमाणवचनात् । जलस्नेहोषधानान्तु प्रमाणं यत्र नेरितम् । तत्र स्यादौषधात् स्नेहः स्नेहात् तोयं चतुगुणमिति वक्ष्यमाणवचनाच्च । स्नेहचतुगुणः काथः स्नेहपादः कल्कः । तथा। अनिद्दिष्टप्रमाणानां स्नेहानां प्रस्थ इष्यते इति वचनाच्च। पयःसर्पिःप्रयोगे तु गव्यमेव विधीयते इति वचनाच्च पुराणं
चक्रपाणिः-पिप्पल्यादौ घृते पिप्पल्यादीनां विशेषानुक्तेः कषायत्वं कलकत्वञ्चै के ब्रुवन्ति । अन्ये तु कल्कत्वमेवेच्छन्ति । द्रवकार्य्यन्तु द्रवस्यानुक्तत्वात् तोयनैव कर्त्तव्यम् , “द्रवकार्ये त्वनुक्ते तु सर्वत सलिलं स्मृतम्" इति वचनात् । ननु यत्र कल्कत्वेन द्रव्यश्रुति वञ्च न श्रुतम्, तल जलं कर्त्तव्यम् , यथा-"पषणत्रिफलाकल्के विल्वमात्र गुड़ात् पले। सर्पिषोऽष्टपलं पक्त्वा मातां मन्दानले पिबेत् ॥” इति । यत्र तु कषायरवं कल्क वं वा नोक्तम्, तत्र क्वाथकल्कावेव कर्त्तव्यौ, यदुक्तं सुश्रुते-“कल्ककाथावनिर्देशे गणात् तस्मात् समाहरेत्" इति। मैवम्, सुश्रुतोक्तपरिभाषा हीयं गणविषयैव, “गणात् तस्मात् समाहरेत्" इति वचनात्, न च पिप्पल्यादयोऽमी गणत्वेनोक्ताः। गणेऽपि यताधिक रणेन श्रुतिः तत्रैव काथकल्ककरणम्। यदुक्तमन्यत- “यत्राधिकरणेनोतिर्गणे स्थात् स्नेहसंविधौ। तत्रैव कल्कनिय्यूहाविध्येते स्नेहवेदिना ॥” इति । किञ्च सामान्येन द्रव्यस्य स्नेहसाधनाभिधाने यदि कल्ककषायौ स्याताम्, तदा बलातैलादौ “बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्" इति न कुर्यात्, कल्ककषाययोरुपादानसामान्यसाधनवचनेनैव लब्धत्वात् । तस्मात् कल्कमात्रेणैव पिप्पल्यादिद्रव्यं जलं चतुर्गुणं देयम्, एवमन्यतापि बोद्धव्यम्। अव च पक्तव्यघृतस्य प्रमाणानिर्देशादव्यवस्थितमानमेव सपिरिच्छातः पक्तव्यम् । यत्र तु प्रस्थादिमाननिर्देशं फरोति, तत्र तावन्माणैव स्नेहेन प्रायो रोगोपशमो भवतीति ज्ञेयम् । तथा हि वातव्याध्यादौ भूयःस्नेहसाध्ये भूयसीमेव स्नेहमावां वक्ष्यति, तथा प्रपौण्डरीकाधनस्ययोगितया कुड़वमानं स्नेहं वक्ष्यति। कुष्ठे तिक्तषट्पलादौ तु अत्यल्पघृतपाकसंविधानेन तथैव पकस्य घृतस्य कार्यकर्तृत्वं भवतीति भेषजप्रभावदर्शी महर्षिर्बोधयति। तत्र यदि कुष्ठस्य दीर्घरोगतया भूयसा षटपलेन प्रयोजनम्, तदा पुनःपुनः षट्पलमानं पक्तव्यं घृतम्, “यथा कुर्वन्ति, स उपायः" इति वचनात। एवं पानीयकल्याणागस्त्यहरीतक्यादावपि प्रतिनियतमानकथनप्रयोजनं वाच्यम् ।
३१३
For Private and Personal Use Only