SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यमभ्यायः चिकित्सितस्थानम्। २४७५ निरूहो बलमग्निश्च विवरस्वं मुदं रुचिम्। परिपक्वेषु दोषेषु प्रयुक्तः शीघ्रमावहेत् ॥ पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्। । . संसनस्त्रोन् मलान् वस्तिहरेत् पक्काशयस्थितान् ॥ ८॥ गङ्गाधरः-निरूहकाण्याह-निरूह इत्यादि। मुदं हर्षम् । कस्मादेवं स्यादित्यत आह-पित्तं वेत्यादि। पित्ताशयगतं पित्तं वा कफपित्तं वा हरेत् । संस. वस्तिः पकाशयस्थितान् त्रीन् मलान् वातपित्तकफान् हरेत् । ननु "ज्वरे पेश कषायाश्च सपिः क्षीरं विरेचनम् । षड़हे षड़हे देयं कालं वीश्यामयस्य च” इति तन्त्रान्तरे यदुक्तं तत् कथमुपपद्यते ? यदि ज्वरे लङ्घनमेवादौ ततो याबज्ज्वरमृदूभावात् षहं वा यवागूपाचनकषायाश्च ततो दशाहं यावल्लध्वनयषमांसरसाशनं शमनीयकषायश्च ततो दशाहादूद्ध सपिस्तत्र दाहतृष्णावति क्षीरमिति विधीयते। आभिः क्रियाभिरप्रशान्ते ज्वरे अक्षीणबलमांसस्य विरेचनमिति च विधीयते इति चेन्न तन्त्रान्तरवचने हि षड़हे षड़हे इति यदुक्तं तद्दिनसीमाख्याप नार्थ सामान्यवचनम्, तेन पेयानियमात् परं कषायास्त्रयोदशदिनात् पर सपिस्ततो दुग्धमेकोनविंशतिदिनं यावत्, ततो विंशतिदिनावधि विरेचनमित्याह सामान्यतोऽथ विशेषार्थमुक्तं कालं वीक्ष्यामयस्य चेति, तेन सप्ताहात परं दशाहं यावत् संशमनकषायेण यस्य कफक्षयो भवति तस्य दशाहादूद्ध सपिः, यस्य कफोत्तरत्वं तस्य निर्दशाहत्वेऽपि न सपिरिति त्रयोदशादूर्द्ध खरनादेन सपिः व्यवस्थापितं सामान्यतः एवं सति न विरोध इति ; जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपममिति यदुक्तम्, तेनापि समं न दाहतृष्णेति वचनं घिरुध्यते। अत्र हि निरामपदं दशाहं यावत् शमनीयकषायविधानादूद्ध सपिविधानमुक्त्वा तत्रापि. कफोत्तरत्वे मांसरसाशनशमनकषायव्यवस्था यावल्लघुलादुत्त्या व्यवस्थाकरणात् चतुर्दशदिनावधिकालं ज्ञापयति, न तु सप्ताहादुद्ध कालमिति ॥९८॥ नवहियत इति विरेचनादेयत्वे क्षीरं युक्तम्। अत क्षीरस्य पूर्वोक्तविषयेणैव गुणानां लब्धत्वात् भवशिष्ट निरूहगुणमाह-निरूह इत्यादि ॥ ९७ ॥ - चक्रपाणिः-विरेचनास्थापनयोर्दोषभेदेन च विषयमाह-पित्तमित्यादि। वमनस्य तु दोषभेदेन स्थानेन च विषयः “कफप्रधानान्" इत्यादिनैवोक्त इति नेह पुनरुच्यते, परं पूर्वमवस्था For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy