SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४७४ www.kobatirth.org चरक संहिता | - Acharya Shri Kailassagarsuri Gyanmandir [ ज्वरचिकित्सितम् दाहतृष्णा परोतस्य वातपित्तोत्तरं ज्वरम् । बद्धप्रच्युतदोषं वा निरामं पयसा जयेत् ॥ ६५ ॥ क्रियाभिराभिः प्रशमं न प्रयाति यदा ज्वरः । अक्षीणबलमांसस्य शमयेत् तं विरेचनैः ॥ ६६ ॥ ज्वरक्षीणस्य न हितं वमनं न विरेचनम् । कामन्तु पयसा तस्य निरूहैर्वा हरेन्मलान् ॥ ६७ ॥ गङ्गाधरः - सर्पिः पानानन्तरं दाहादिषु सर्पिरजेयेषु किं कार्य्यमित्यत आह- दाहतृष्णेत्यादि । वातपित्तोत्तरं न तु कफप्रधानं बद्धप्रच्युतदोषं शरीरे बद्धा न वहिर्निर्गताः किन्तु प्रच्युताः स्वस्थानतो हि क्षरिता दोषाः पित्तादयो यत्र ज्वरे तं ज्वरं निरामं न तु सामं पयसा यथास्वौषधसिद्धेन ॥ ९५ ॥ गङ्गाधरः - एतेनापि ज्वरस्याप्रशान्तौ किं कार्य्यमित्यत आह- क्रियाभिरित्यादि । आभिः प्रथमतो लङ्घनं ततो वमनाहस्य वमनं ततो यथास्वौषधसिद्धमण्डपेयाविलेप्यस्तथा पाचनकषायश्च । ततो निरामे मुद्रादियुषजाङ्गलमांसरसेन लघ्वन्न शमनीयकषायाश्च ततो मन्दकफे सर्पिषः पानम् । तत्र दाहतृष्णावति दुग्धं विधाय यस्य ज्वरो न शाम्यति स यद्यक्षीणबलमांसः स्यात् तदा तस्य विरेचनैरूर्द्धाधःशोधनैस्तं ज्वरं शमयेत् ॥ ९६ ॥ गङ्गाधरः- ननु ज्वरक्षीणस्य केन शमयेदित्यत आह-ज्वरक्षीणस्येत्यादि । पयसा किञ्चिद्विरेचनद्रव्यसाधितेनोष्णेन वा निरूहेर्विरेचनवस्तिभिवा ॥९७॥ चक्रपाणिः - दाहे यादिना क्षीरावस्थामाह । बद्धप्रच्युतदोषं वेत्यल बद्धदोषत्वमप्रवर्त्त मानदोषत्वम्, प्रच्युतदोषत्वन्तु स्तोकेन प्रवर्त्तमानदोषत्वम्, तत्र क्षीरं तावत् बद्धप्रवर्त्तकं भवति, तथा प्रच्युतेऽपि विविधदोषप्रवत्त' कतयोपकारकं भवति, अत एव क्षीरगुणेषु - " पुरीषे प्रथिते पथ्यमतीसारे तथा स्मृतम्" इत्युक्तम् । किंवा बद्धदोषे गव्यं क्षीरं सरत्वाद देयम्, प्रच्युते तु For Private and Personal Use Only संग्राहित्वा च्छागं देयम् ॥ ९५ ॥ चक्रपाणिः - 'आभिः क्रियाभिर्यदा न प्रशमं याति ज्वरस्तदा विरेचनैः शमयेत्' इति भाषमा विरेचनबहुव्यापत्तिकतया इतरकर्म्मासिद्वावेव कर्त्तव्यतां दर्शयति । विरेचनैरिति बहुवचनम् विरेचनप्रयोगविवरणे वमनविरेचनयोगांश्चाभिधास्यतीति ॥ ९६ ॥ चक्रपाणिः - ज्वरेणाक्षीणस्य शोधनमुक्त्वा ज्वरक्षीणस्य शोधनमाह – ज्वरक्षीणस्येत्यादि । पयसा वेति पयःपानेन । पयस्त्वनुलोमकतया दोषहरं भवति, अनुलोमकत्व विरेचनत्वेन न 1
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy