SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६६ चरक-संहिता। [ ज्वरचिकित्सितम्अन्नकालेषु चाप्यस्मै विधेयं दन्तधावनम्। योऽस्य वक्तरसस्तस्माद विपरीतं प्रियञ्च यत् ॥ . तदस्य मुखवशय प्रकाडनाश्चान्नपानयोः। .. धत्ते रसविशेषाणामभिज्ञत्वं करोति यत् ॥ विशोध्य द्रुमशाखामेरास्यं प्रक्षाल्य चासकृत् । मरित्वक्षुरसमद्याद्यर्यथाहारमवाप्नुयात् ॥१०॥ पाचनं शमनीयं वा कषायं पाययेद भिषक् । ज्वरितं षड़हेऽतीते लघ्वन्नप्रतिभोजितम् ॥ गङ्गाधरः-भोजनकाले रोचनार्थ दन्तधावनमाह-अन्नकालेष्वित्यादि। चशब्दस्तुकाराथै, अपिशब्दः समुच्चये। तेन प्रातःकालेऽपि दन्तधावनं विधेयं न तु प्रतिषिध्यते। ननु किंरसद्रव्येण दन्तधावनं कस्माद्वा हेतोविधेयमित्यत आह-योऽस्येत्यादि। अस्य ज्वरितस्य ज्वरे जाते तदा यो वक्तरसः तस्माद्रसाद्विपरीतरसं यद द्रव्यं तस्य ज्वरितस्य मुखप्रियञ्च यद् द्रव्यं भवति तद् द्रव्यमस्य ज्वरितस्य मुखवैशद्य मुखप्रसादमन्नपानयोश्च प्रकासां धत्ते। रसविशेषाणामभिशखञ्च तत् यत् यस्माद्धेतोः करोति। ननु किमीशद्रव्येण काष्ठादिना वा दन्तधावनं विधेयं तदनन्तरञ्च किं कृखा भोजयेदित्यत आह-विशोध्येत्यादि। द्रमशाखागः ज्वेरितस्य मुखरसविपरीतरसवद्भिः प्रियैश्च वृक्षशाखार्दन्तधावनेनास्यं विशोध्य मुखदन्तमलानपहत्यासकृद्वार वारं जलेनोष्णेन प्रक्षाल्य कवलीकृत्य धौतीकृत्य मस्तुना वा इक्षुरसेन वा मद्य न वा आद्यशब्देन मुद्गसूपजाङ्गलमांसरसशाकव्यञ्जनैश्च यथाहारं यस्य य आहारः स तमाहारमवाप्नुयात् ॥९०॥ गङ्गाधरः-नन्वेवमस्वाहारविधियवागूतपणानन्तरं ज्वरलघूभावे किमन्यद भेषजं विधेयं न वा अनेनैवाहारविधिना किं ज्वरः शाम्यतीत्यत आहपाचनमित्यादि। भिषक् ज्वरितं क्षयानिलादिजज्वरव्यतिरिक्तं सम्यग्: चक्रपाणिः-सम्प्रति कषायपानविषयमाह-पाचनमित्यादि। पाचनमित्यामदोषपाचनम्। शमनीयमिति पक्कदोषोपशमनम्। एतच्च विकल्पद्वयं योग्यतया यथाक्रममामदोषविषयं तथा पक्कदोषविषयं ज्ञेयम। षड़हेऽतीत इति ज्वराहादारभ्य षड़हेऽतिक्रान्ते। अतः सप्तमेऽहनि लध्वन्न For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy