________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२ अध्यायः] चिकित्सितस्थानम्।
२४६५ तत्र तर्पणमेवामे प्रदेयं लाजशक्तुभिः । ज्वरापहः फलरसैर्युक्तं समधुशर्करम् ॥ द्राक्षादाडिमखजूर-पियालैः सपरूषकः । तर्पणाहेषु कर्त्तव्यं तर्पणं ज्वरशान्तये ॥८॥ ततः साम्यबलावेक्षी भोजयेज्जीर्णतर्पणम् । तनुना मुद्सूपेन ® जाङ्गलानां रसेन वा ॥८६॥ गङ्गाधरः-ननु मद्योत्थादिषूक्तेष अग्रे तर्हि किं विधीयते इत्यत आहतत्रेत्यादि। तपणं द्रवेणालोड़िताः शक्तवः। ननु कस्य शक्तः केन च द्रवेण तपेणं विधेयमित्यत आह-लाजशक्तुभिरिति । एवकारेण भोजनार्थमन्नादिन्यवच्छेदः। अग्रे इति लङ्घनवमनाहेषु लङ्घनवमनानन्तरमनकाले तदनहेषु तु प्रथमत एवं यावज्ज्वरमभावात् षड़दं वेति। समधुशकरमिति स्वादनुरूपेण मधुशकरे देये। ननु ज्वरापहानि कानि फलानीत्यत आह-द्राक्षेत्यादि । दाडिममिति मधुरं यत् तदेव त्रिदोषहरखात्। परूषकं परसफलेति लोके । सर्पणादेषु इति ऊद्ध गरक्तपित्ते कफान्वयादादौ लङ्घनं कर्त्तव्यं न च तस्य प्रथमतस्तपणाईत्वं, क्षयानिलजादयश्चेत् मदात्ययादिमतां भवन्ति तदानमेव तपेणाईखात् तर्पणं कर्तव्यमिति शापनार्थ पुनस्तर्पणाहेष्विति पदम् ॥ ८८॥
गङ्गाधरः-ननु कियन्तं कालमेवं तर्पणेन चाचरितव्यमित्यत आहतत इत्यादि। ततस्तर्पणेन समाचरणानन्तरम् । जीणं तर्पणं यस्य तं जीणेतर्पणं मद्योत्थादिज्वरिणं सात्म्यबलावेक्षी मद्योत्थादिज्वरवतः सात्म्य तज्ज्वरस्योपशयं बलश्चावेक्षमाणो भिषक् ज्वरमृदूभावे सति तनुना स्वच्छेन अघनेन मुद्गसूपेन यूषेण वा वक्ष्यमाणजाङ्गलमांसरसेन वानकालेषु भोजयेद वक्ष्यमाणतण्डुलानमिति शेषः॥८९॥
चक्रपाणिः-"अखेंगे तर्पणं पूर्वम्” इति वचसा यवागू बाधित्वा उर्द्धगे रक्तपित्ते तर्पणं क्यपि विहितमेव, तथापि ऊर्द्धगरक्तपित्तिनो यो ज्वरस्तत्रापि तर्पणादिक्रमविधानम् । एतत् तर्पणं तोयपरिप्लुताः शकवः ; ज्वरापहानि फलानि द्राक्षादाडिमादीनि ; वचनं हि-"द्राक्षादादिमखजूर-पियालेः सपरूषकः। तर्पणाहेषु कर्त्तव्यं तर्पणं ज्वरनाशनम् ॥” इति ॥८८ ॥
चक्रपाणिः-जीर्ण तर्पणं यस्य तं जीर्णतर्पणम् । मुद्यूषस्य जाङ्गलरसस्य विकल्पः सात्म्बवलापेक्षश्च शेयः । दुर्बलो हि दुर्बलाग्निः प्रायो भवति, तस्य मुद्यूषो लघुत्वेन देयः, इतरस्य तु जाङ्गलो रसः ॥ ८९॥
• "मुद्यूषेण" इति चक्ररतः पाठः ।
For Private and Personal Use Only