________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७९६
चरक-संहिता। उत्तरवस्तिसिदिः बलवान् वर्णवान् सर्व-रतिः खङ्गः स्थिरेन्द्रियः। प्रसन्नात्मा सर्वसहो विज्ञयः प्रकृतिं गतः॥४॥ एतां प्रकृतिमप्राप्तः सर्ववानि वर्जयेत् । महादोषकराण्यष्टावेतानि तु विशेषतः ॥ .. उच्चैर्भाष्यं रथक्षोभश्चातिचंक्रमणासने । अजीर्णाहितभाज्ये च दिवास्वप्नश्च मैथुनम् ॥ ऊई देहेऽथ साधोमध्यपीडामदोषजाः । श्लेष्मजाः क्षयजाश्चैव व्याधयः स्युर्यथाक्रमम् ॥ ५॥ तेषां विस्तरशो लिङ्गमेकैकस्य सभेषजम् । यथावत संप्रवक्ष्यामि सिद्धान् वस्तींश्च यापनान् ॥ ६॥ गङ्गाधरः-प्रकृतिलक्षणमाह-बलवामित्यादि। सर्चरतिः सव्वषु कम्मसु रतिर्यस्य सः। स्वङ्गः सुष्टु अङ्गं यस्य सः। प्रसन्न आत्मा मनो यस्य सः॥४॥
गङ्गाधररा-एतामित्यादि। एतां प्रकृतिमप्राप्तः पुमान् स्व्वेवानि यस्य व्याधेर्यानि यानि तानि सर्वाणि वयानि वर्जयेत्। महादोषेत्यादि। उच्चभाष्यम्, रथक्षोभो रथादियानेन क्षोभः शरीरस्यातिचालनम्, अतिचंक्रमणम्,अत्युपवेशनम्, अजीर्णभोज्यम्, अहितभोज्यम्, दिवास्वमः, अतिमथुनञ्चेत्येतान्यष्टौ महादोषकराणि विशेषतो भवन्ति। कस्मात् को दोषः स्वादित्यन आह-ऊड़े मित्यादि । उच्च ष्येणोद्ध देहे जाता व्याधयः स्युः। रथक्षोभेण सव्वदेहजाः, अतिचंक्रमणेनाधोदेहजाः, अत्यासनेन मध्यदेहजा पीडाः। अजीणेभोज्येनाममा व्याधयः। अहितभोज्येन दोषजा व्याधयः। दिवाखम न इलेष्मजा व्याधयः। अतिमैथुनेन क्षयजा व्याधय इति यथाक्रमं स्युः। तेषामित्यादि ॥५॥६॥ अभ्योऽन्यप्रत्यनीकानामित्यादिना तं प्रत्येकं प्रत्यनीकानामित्यन्योऽन्यव्यत्यासो युज्यते । पेयादि
माभ्यासमुपयुखानस्य स्वस्थस्य पुसो लक्षणमाह-बलवानित्यादि । सर्वसह सर्वाभ्याससह । निरासा इति प्रतिमियतविषयपराहतः॥३॥४॥
चारूपाणिः-एतामिति । उप ज्यादयो देहपीडाकरा ज्ञेयाः। सच्चै ज्यादूद: देहपीन। स्थक्षोभात् सईदेहपीड़ा। भतिचंक्रमणादधःपीडा। आसनाद् देहमध्यपीडा। अजीर्णभोजमेनामजा। अहितभोजनेन दोषजा। दिवास्वप्नेन इलेष्मजा। मैथुनेम आयजा ॥ ५॥६॥
For Private and Personal Use Only