________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०मअध्यायः]
सिद्धिस्थानम् ।
३७८३ अश्वावरोहिका काक-नासा राजकशेरुकः । सिद्धाः क्षोरे त्रयो योगा चौद्राञ्जनघृतैर्यताः॥... न्यग्रोधायश्चतुर्भिश्च तेनैव विधिमा पुनः। वस्तिः प्रवाहणे देयो भिषजा कल्पितो धिया ॥ २२ ॥ वृहती क्षीरकाकोली पृश्निपर्णी शतावरी। काश्मरी वदरी दूर्वा तथोशीरप्रियङ्गवः॥ जीवनीयैः शृतैः क्षीरद्वौ घृताञ्जनसंयुतौ। वस्ती प्रदेयो भिषजा शीतौ समधुशर्करौ॥ .. गोऽव्यजामहिषीक्षीरर्जीवनीययुतैरपि । तेनैव विधिना वस्तियः सक्षौद्रशर्करः॥ २३ ॥ शशैणदक्षमार्जार-महिषाव्यजशोणितैः। सद्यस्कैदुभिर्वस्तिर्जीवादाने प्रशस्यते ॥ २४ ॥ गाधरः-अश्वेत्यादि। अश्वावरोहिका अश्वत्थावरोहलचः काकनासा काउयाठी राजकशेरुकः इत्येते पृथक् क्षीरे सिद्धाः क्षौद्ररसाञ्जनघृतयुता. स्त्रयो योगाः प्रवाहणे हिताः स्युः। न्यग्रोधादारित्यादि । न्यग्रोधोडुम्बराश्वत्थप्लक्षश्चतुर्भिः क्षीरे सिद्धैः कृतो वस्तिः क्षौद्राञ्जनघृतयुतो प्रवाहणे हितः॥२२॥ - गङ्गाधरः-वृहतीत्यादि। वृहत्यादिशतावय्यन्तकल्को जीवनीयदशकेन क्षीरैः शृतरेकः। क्षीरर्जीवनीयदशभिः पक्वः काश्मर्यादिप्रियजन्तकल्क इत्येक इति द्वौ वस्ती घृतरसाञ्जनयुक्तौ समधुशकरौ प्रदेयो। गोऽव्यजेत्यादि। गवादीनां क्षीरर्जीवनीयकल्कयुतरपि वस्तयः घृतरसाञ्जनयुताः समधुधशर्केराः शीता प्रवाहणे हिताः॥२३॥ - गङ्गाधरः- शशणेत्यादि। शशादीनां सद्यस्कः शोणितम दुभिद्रव्ययु तो वस्तिर्जीवादाने प्रशस्यते ॥२४॥
चक्रपाणि:-अश्वावरोहकोऽश्वगन्धा, अश्वकर्ण इभुको वा। न्यग्रोधायाश्चत्वारः-न्यग्रोधोडम्बरावस्थालक्षाः । तेनैव विधिनेति पूर्वयोगविधिना। एतौ द्वावतियोगे। जीवादान इति शोणितप्रवृत्तौ। गोऽस्यजेत्यादिना जीवादाने प्रशस्यते इत्यन्तेन जीवादाने तृतीयो वस्तिकच्यते ।
For Private and Personal Use Only