SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाज २३८४ चरक-संहिता। [वाजीकरणपाद ४ द्रव्यैरेवंविधैस्तस्माद भावितः प्रमदां व्रजेत् । आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः॥ गत्वा स्नात्वा पयः पीत्वा रसं वानु शयीत च। तथास्याप्यायते भूयः शुक्रञ्च बलमेव च ॥१८॥ यथा मुकुलपुष्पस्य सुगन्धो नोपलभ्यते। लभ्यते तद्विकाशात् तु तथा शुक्र हि देहिनाम् ॥ गङ्गाधरः-तस्माद्धेतोरेवंविधैरुक्तमधुरादिभिव्यर्भावितः संस्कृतदेहः पुमान् प्रमदां व्रजेत्। कथंप्रकारेण व्रजेदित्यतआह-आत्मेत्यादि। आत्मवेगेन खतो जातकामवेगेन उदीर्णः उदगतलिङ्गः, पुनः स्त्रीगुणेश्व मधुरालापहावभावादिभिः प्रहर्षितो जातहर्षः सन् स्त्रियं गत्वा मैथुनं कृखा अनन्तरं स्नाखा पयः पीत्वा रसं मांसरसं वा पीखानु पश्चात् शयीत । तथा तस्मिन् प्रकारेऽस्य कृतसुरतस्य पुसो भूयः पुनरपि भूयिष्ठं शुक्रश्च बलम्चैवाप्यायते वद्धते इति ॥१८॥ गङ्गाधरः-अथ शुक्रप्रकाशप्रकारमाह-यथेत्यादि। मुकुलपुष्यस्य कलिकारूपपुष्पस्य सुगन्धो यथा नोपलभ्यते विकाशात् तु पुष्पकलिकाप्रस्फुटखात् तु पुष्परूपत्वे सुगन्धो लभ्यते उपलभ्यते-प्रादयो हि द्योतकाः, धातुवाच्यमेवार्थ द्योतयन्ति, तस्माच्च विनाप्युपसर्गम् उपसर्गद्योत्य स्वार्थ धातवोऽभिदधतीति- तथा देहिनां शुक्रं मुकुलपुष्पस्य सुगन्ध इव । देहिनां दृद्धानां वालानाञ्च शुक्रं नोपलभ्यते उपलभ्यते च यूनां मध्यमानाच देहिनाम्। ननु वृद्धानां बालांनाश्च तर्हि किं शुक्रं न वर्त्तते पुष्पमुकुलेषु च सुगन्धश्च किं न वर्तते इति चेन्न। उक्तं हि सुश्रुते। यथा हि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तुं नैव नास्तीत्यथवास्ति सतां भावानाम् अनभिव्यक्तिरिति कृता केवलं सौक्षम्यान्नाभिव्यज्यते। स एव गन्धो विकृत चक्रपाणिः-अनुक्तवाजीकरणं संगृह्णन् आह-यत्किञ्चिदित्यादि। भावित इति वचनात्, प्रयोगेण शरीरभावनायां सत्या स्त्रीसेवा सम्भवतीति दर्शयति । आत्म.वेगेनेति सङ्कल्पजातनाम वेगेन । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy