________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Ka
Acharya Shri Kailassagarsuri Gyanmandir
३७६४
चरक-संहिता। [त्रिमर्मीयां सिद्धि पुष्पनेत्रप्रमाणन्तु प्रमदानां दशाङ्गलम् । मूत्रस्रोतःपरिणाहं मूत्रलोतोऽनुवाहि छ च॥ अपत्यमार्गे नारीणां विधेयं चतुरङ्गलम् । द्वाकुलं मूत्रमार्गे तु बालायास्त्वेकमङ्गुलम् ॥ ३६ ॥ उत्तानायाः शयानायाः सङ्कोच्य समसक्थिनी। अथास्याः प्रणयेन्नेत्रमनुवंशगतं सुखम् ॥ द्वित्रिचतुरिति स्नेहमहोरात्रण दापयेत्। वस्तिं वस्तौ प्रणीते तु वस्तिश्चानन्तरो भवेत् ॥ त्रिरात्रं कर्म कुर्वीत स्नेहमात्रां विवर्द्धयन् ।
अनेनैव विधानेन कर्म कुर्यात् पुनस्वाहात् ॥ ३७॥ गङ्गाधरः-पुष्पनेत्रेत्यादि। प्रमदानां स्वाङ्गुलिमानेन दशाङ्गुलं न तु द्वादशाहळ शेष पुष्पनत्रप्रमाणं मूत्रस्रोतःसमानपरीणाह स्थलं मूत्रस्रोतोऽनुरूपेण वहति च उत्तरवस्तिनेत्र कुर्यात्। योनिनत्रन्खाह-अपत्येत्यादि । नारीणामपत्यमार्ग योनिपथे चतुरलं नेत्रं विधेयम् । बालायास्तु नार्याः मूत्रमार्ग दाङ्गुलं नेत्रं कार्यम्। अपत्यमार्ग त्वेकाहुलं नेत्रं काय्र्यम् ॥३६॥
मङ्गाधरः-उत्तरवस्तिदानक्रममाह-उत्तानाया इत्यादि। समे च त सथिनी चेति समसक्थिनी सङ्कोच्योत्तानायाः शयानायाः अस्या नायः पृष्ठवंशमनु लक्षीकृत्यानुवंशं तद्गत वस्तिनेत्रं सुरवं प्रणयेत् । द्विस्त्रिश्चतुर्वाहोरात्रेण स्नेहं वस्तिं दापयेदिति, स्नेहस्य वस्तौ सम्यक् प्रणीते संति पुनः अनन्तरो वस्तिदेत्तो भवेत् । इत्येवं त्रिरात्र वस्तिकर्म स्नहमात्रां विवद्धेयन् बद्यः कुर्वीत। पुनस्वाहात् परमनेनव विधानेन स्नेहवस्तिकर्म कुर्य्यात् । इत्युत्तरवस्तिविधानं व्याख्यातं भवति॥३७॥ ... . पुष्पनेसप्रमाणस्वित्यादि। मुनस्रोतोऽनुपातीति मुद्वा हच्छिन्द्रम् । अपत्यमाग विधेयं चतु रङ्ग समिति अपत्यमार्गे स्नेहयितव्ये चतुरङ्ग लभवेशनं प्राप्तयौवनानामेव नारीणां कर्तव्यम् , मूत्रमार्ग तु स्नेहयितव्ये रङ्ग लमवेशनं प्राप्तवयस्कानामेव कर्तव्यम्, बालायाः स्वरूपप्रमाणतया एकालप्रवेशनमेव मूतमार्गप्रयोगार्थ कर्तव्यम् । बालानान्त्वपत्यमार्गे न दीयत एव, तासा * मुनस्रोतोऽनुपातीति चक्रतः पाठः ।
For Private and Personal Use Only