________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७६२
चरक संहिता | ततः शेफः प्रमाणेन पुष्पनेत्रं प्रवेशयेत् । गुदवन्मूत्रमार्गेण प्रणयेदनुसेवनम् ॥ हिंस्याद् वस्तिगतो वस्तिं मूले स्नेहो न गच्छति । सुखं प्रपीड्य निष्क्रम्य निष्कर्षेन त्रमेव च ॥ ३१ ॥ प्रत्यागते द्वितीयं वा तृतीयञ्चापि दापयेत् । अनागच्छन्नुपेक्ष्यस्तु रजनीं व्युषितस्य च ॥ पिप्पलोलवणागार - धूमापा मार्गसर्षपैः । वार्त्ताकुर सनिर्गण्डी-शम्पाकैः ससहाचरः ॥ मूत्राम्लपिष्टैः सगुड़ वत्तिं कृत्वा प्रवेशयेत् ।
तु सर्वपाकारां पञ्चाद् द्विमाषसम्मिताम् ॥ नेत्रदीर्घा घृताभ्यक्तां सुकुमारामभङ्कराम् । नेत्रवन्मूत्रनाड़ीन्तु पायौ चाङ्गुष्ठसम्मिताम् ॥ ३२ ॥ शेफ प्रमाणेन पुष्पनेत्र प्रवेशयेत् । यथा गुदे प्रणयनमुक्त नातिद्रत नातिधीरमकम्पस्तं तथा अनुसेवन मुष्क सेवनीसमानेन मूत्रमार्गेण प्रणयेत्, एवं दत्तः स्नेहो वस्तिगतः मूले वस्तिं मूत्राशयं न हिंस्यादथ गच्छति च वस्तिम् । ततः सुखं प्रपीड्य शिश्नं निष्क्रम्य नेत्र निष्कर्षे निगमयेत् ॥ ३१ ॥
गङ्गाधरः- ततः प्रत्यागते स्नेहे द्वितीयं दापयेत तृतीयं वा दापयेदिति । अनागच्छन्नित्यादि । अनागच्छंस्तु स दत्तः स्नेह उपेक्ष्यः सन् रजन्यां व्युषितस्य मूत्राम्लपिष्टः सगुडः पिप्पल्यादिभिर्वत्तिं कृत्वा प्रवेशयेत् । यादृशों
प्रवेशयेत् तद्वर्त्तिप्रकारमाह- अग्रे खित्यादि । मूत्रनाड्यां मूत्रनिर्गमनच्छिद्रनेत्रवत् पुष्पनेत्रवदग्रे सर्वपाकारां पश्चान्मूले द्विमाषसम्मितां नेत्रदीर्घा इति हृष्ट यथप्रतिहता व्रजेत शलाका, तत्र पुष्प नेत्रं शेफः प्रमाणसमं प्रवेशनीयम् । शलाकया 'प्रथममन्वेषणं मार्गविज्ञानार्थम् । गुदे यथा नेसकमानादिगुणयुक्तं प्रवेश्यते, तथा मेढे ऽपि । अतिगतं लिङ्गप्रमाणातिरेक प्रविष्टं नेत्रं वस्तिं हिंस्यात् । ऊन इति लिङ्गमानस्तोकप्रविष्टे ॥ २९-३१ ॥ -
For Private and Personal Use Only
[मिया सिदि:
चक्रपाणिः- पिप्पलीत्यादिना व्युषितेऽप्यनागच्छतः स्नेहस्य प्रवर्त्तिकां वर्तिमाह । इय गुदपाकेन कटिना कर्तव्या यथा लक्ष्णा भवति । पश्चाद्धे इति मूळे । अनुसन्निभाव • वातिगतमिति चक्राभिमतः पाठः ।