________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७५०
चरक-संहिता। [सिमीया सिद्धिा आश्रयनाशादाश्रितस्य नाशः। तदुपघातात् तु घोरव्याधिप्रादु. र्भावस्तस्मादेतानि विशेषेण संरक्ष्याणि वाह्याभिघाताद वातादिदोषेभ्यश्च ॥ ४॥
तत्र हृदयेऽभिहते कासश्वासबलक्षयकण्ठशोषक्लोमापकर्षणजिहानिष्क्रममुखतालुशोषापस्मारोन्मादप्रलापचित्तनाशादयः स्युः। शिरस्यभिहते मन्यास्तम्भादितचक्षुर्विभ्रममोहावेष्टन-चेष्टानाश-कासश्वास-हनुग्रहमूकगद्गदत्वाति-निमीलनगण्डस्यन्दनजृम्भणलालास्त्रावस्वरहानिवदनजिह्मत्वादीनि।वस्तो पुनर्वातमूत्रवर्धोनिग्रहवतणमेहनवस्तिशूलकुण्डलोदावर्त्तगुल्म बध्नानिलाष्ठीलोपस्तम्भनाभिकुक्षिगुदश्रोणिग्रहादयः। वातादुरपसृष्टानाञ्चैषां लिङ्गानि चिकित्सिते सक्रियाविधीन्युक्तानि । किन्वेतानि विशेषतोऽनिलाद्रक्ष्याणि, अनिलो हि पित्तकफ शरीरभेदः स्यादाश्रयनाशादाश्रितस्य नाशस्तस्मात् तदुपघाताद घोरव्याधिमादुर्भावः स्यात् तस्मादेतानि वस्तिहृदयशिरांसि विशेषेण रक्ष्याणीति प्रतिभा ॥४॥
गङ्गाधरः-तप्रेत्यादि। तत्र हृदयेऽभिहते कासादयः स्युः। शिरस्यभिहते मन्यास्तम्भादयः स्युः । वस्तौ खभिहते वातादिनिग्रहादयः स्युः । तत्र वातादुरपसृष्टानाञ्चषां लिङ्गानि सक्रियाविधीनि चिकित्सिते स्थाने उक्तानि। किन्तु आश्रयनाशादाश्रितस्य नाश इति आश्रयनाशादाश्रितस्य नाशो यस्मात् भवति, तस्माद् हृदयादीनामन्यतमस्य नाशाछरीरनाशो भवतीति युक्तम्। शरीरस्य हृदयाश्रितत्वं शेरीररक्षकप्रधानदशधमन्यायाश्रयस्वेनैव ज्ञेयम् । उपघातादिति विचिदवैकृतात् ॥३॥४॥
चक्रपाणिः-हृदयाघभिघातभवान् व्याधीन क्रमेणाह-तत्रेत्यादि। क्लोमापकर्षणं क्लोमापकर्षणाकारा वेदना। वेष्टनं शिरसि वेष्टनाकारा वेदना। कुण्डलं वस्तौ कुण्डलरूपा वेदना। उपखम्भो वस्तेरेव । चिकित्सित इति लिमम्मीयचिकित्सिते। सक्रियाविधीनीति सचिकितसितविधानानि। मर्मपरिपालने वस्तेः प्राधान्यं सोपपत्तिकमाह-किन्रवेतानीत्यादि। यस्मात्
For Private and Personal Use Only