________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८ अध्यायः ]
सिद्धिस्थानम् ।
शकवातमस्क पित्तं कफं वा योऽतिसार्य्यते । पक्कस्तत्र स्ववर्गीयैर्वस्तिः श्रेष्ठं भिषग्जितम् ॥ १५ ॥ १६ ॥ षण्णामेषां द्विसंसर्गात् त्रिंशद्भेदा भवन्ति ते । केवलैः सह चेत् त्रिंशद् विद्यात् सोपद्रवा अपि ● ॥ शूलप्रवाहिकाध्मान-परिक रुचिज्वरान् ।
सतृष्णादाहमूर्च्छान्तांश्चैषां विद्यादुपद्रवान् ॥ १७ ॥
सामं तथारोचकर्जानीयात्, तदा कुष्ठादिकाः सघनातिविषाः पिष्ट्वा जलेन पिबेत् । शकृदित्यादि । शकुवातमक पित्तमिति शकृदादिकं योऽतिसाय्यते तत्र स्ववर्गीयः शकुदाद्यतिसारेऽत्रव वक्ष्यमाणैः पक्को वस्तिः श्रेष्ठं भिषग्जितम् ।। १५ । १६ ॥
गङ्गाधरः - अत्र सूत्राते । षण्णामित्यादि । एषामामशकृद वातापित्तकफानां षण्णां त्रिंशद् भेदा भवन्ति । ते षड़ामादयः केवलस्तैः षड्भिः सह सोपद्रवा अपि द्विसंसर्गाच्चेद् गण्यन्ते तदा त्रिंशद् विद्यात् । तद् यथा । केवलाः षट्, द्विससर्गात् पञ्चदश । आमशकृत् । आमवातः । आमासृक् । आमपित्तम् । आमकफ इति पश्च । शकुदद्वातः । शकृदसृक् । शकृत्पत्तम् । शकृत्कफ इति चत्वारः । वातासृक् । वातपित्तम् । वातकफ इति त्रयः । अपित्तमसृककफ इति द्वौ । पित्तकफ इत्येकः । इति पञ्चदश सह केवलैः षड्भिरेकविंशतिः । नव चोपद्रवा भवन्ति ततस्त्रिशद् भेदाः स्युः । तानुपद्रवानाह - शुळेत्यादि । शूलादीन नवषामुपद्रवान् विद्यात् ॥ १७ ॥
सामं यथा स्यात् तथोपविशेदिति । शकृद वातादिव्यतिरिक्ताममासोपवेशरूपोऽयमतीसारः केवलामशकृद्वातरक्तपित्तकफ जम्यानामिह षण्णामतीसाराणां वक्तव्यानां प्रथम उक्तो भवति । कुणपमिति शवगन्धम् । शूलैर्युक्त इति शेषः । घनं मुस्तकम् ॥ १५ ॥
चक्रपाणिः - केवलशकृदादिजन्यांश्चातिसारानाह - शकृद्वातमित्यादि । पक्कमिति निरामम् । आमशब्दे नेहाग्निदौर्बल्यादविपक्काहाररसेन कोष्ठोपलेपक आमो गृहाते । यदुक्तमन्यत"भामाशयस्थः कायाग्नेदौर्बल्यान्न च पाचितः । आद्य आहरधातुर्यः स रस आमसंज्ञितः ॥ " इति । स्ववर्गीयैरिति पुरीषसंग्रहणवातशोणितास्थापनवित्तकफहरभेषजवगैः, किंवा असोकैर्वानेरित्यादिभिः प्रत्येकं शकृदादिवक्ष्यमाणभेषजैः ॥ १६॥
चक्रपाणिः - अतीसारभेशनाह - पण्णामित्यादि । एषामिति एतदभिहितानाम् । भम्ये तु * सोपद्रवानपि इति पाठो बहुषु प्रन्थेषु दृश्यते ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३७३६