________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः। अथातो वस्तिव्यापत्सिद्धिं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ धीधैय्यौदार्यगाम्भीर्य-शमदमतपोनिधिम्। पुनर्वसं शिष्यगणः पप्रच्छ विनयान्वितः॥ काः कति व्यापदो वस्तः किंसमुत्थानलक्षणाः। काश्चिकित्सा इति प्रश्नान् श्रुत्वा तानब्रवीद् गुरुः॥२॥ नातियोगी क्लमाध्माने हिका हृघट्टकण्ठिका छ । प्रवाहिका शिरोऽङ्गार्तिः परिकर्ती परित्रवः॥ द्वादश व्यापदो वस्तेरसम्यगयोगसम्भवाः ।
आसामेक्कशो रुपं चिकित्साश्च निबोधत ॥३॥ गङ्गाधरः-अथाध्यायोद्देशक्रमाद वस्तिव्यापसिद्धिमाह-अथात इत्यादि। वस्तिद्विधा, तस्य स्नेहवस्तेः षड्व्यापदो व्याख्याताः, शेषखादिह निरूहवस्तिः । शेषं सर्व पूव्वद व्याख्येयमिति ॥१॥ ___ गङ्गाधरः-तद यथा-धीधयेत्यादि । किं समुत्थान लक्षणश्च याषां ताः किंसमुत्थानलक्षणाः। गुरुरात्रेयः पुनर्वसुः॥२॥ ____ गङ्गाधर-नातीत्यादि। द्विविधस्य वस्तेरसम्यगयोगसम्भवा अयोगातियोगे क्लमादयो द्वादश व्यापदः स्युरसम्यग योगः सम्भवो यासां ताः । नयोगोऽतियोगश्च ॥३॥
चक्रपाणि:-वमनविरेचनव्यापसिद्धानन्तरं वस्तिव्यापत्सिद्धिरुच्यते । तत्र वस्तिशब्दो निरूहे एवं वर्तते, तवृद्ध्यापदामेवात वक्तव्यत्वात् । काः कतीत्यादि पञ्च प्रश्नाः ॥ १ ॥२॥
चक्रपाणिः-नातियोग इति। नातियोग इत्यादिना भाद्यप्रश्नवयस्योत्तरम् । एतद् द्वादशव्यापदा विवरणे एव स्फुटार्थ भविष्यति। असम्यगयोगसम्भवा इति निरूहस्य भयोगातियोगमिथ्यायोगरूपासम्यग्योगसम्भवाः, अनेन च समुत्थानप्रश्नस्य सामान्यकारणाभिधानेनोत्तरं दतं भवति। अस वस्तिप्रयोगस्यासम्यगयोगेन निरूहकार्यदोषहरणस्य अतियोगायोगी व्यापत्तिरूपी जन्येते। क्लमादयोऽपि भतियोगायोगजाता एवं विशिष्टहेतुलक्षणचिकित्सिततया इहापि • हृत्प्राप्तिद्धता इति वा पाठः ।
For Private and Personal Use Only