________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रमः अध्यायः }
सिद्धिस्थानम् ।
पीड्यमानेऽन्तरा मुक्ते गुदे प्रतिहतोऽनिलः 1 उरः शिरोऽर्त्ति मूर्वोश्च सदनं जनयेद् बली ॥ वस्तिः स्यात् तत्र विल्वादि फलश्यामादिमूत्रवान् ॥ ८ ॥ स्याद दाहो दवथुः शोथः कम्पनाभिहते गुदे । कषायमधुराः शीताः सेकास्तत्र सवस्तयः ॥ ६ ॥ अतिमात्रप्रवृत्तेन नेत्रेण चणनादु बलेः । स्याच्छाद्दिदाह निस्तोद - गुरुवर्चः प्रवर्त्तनम् ॥
तत्र सर्पिः पिचुः क्षीरं पिच्छावस्तिः प्रशस्यते ॥ १० ॥
मोचयित्वा यथाहबन्धनं कृत्वा पुनर्वस्तिं प्रणयेत् । नचेदेवं कृत्वा वस्तिं दद्यात् तत्र दोषमाह - पीड्यमान इत्यादि । वस्तौ पीड्यमानेऽन्तरा सर्व्वद्रव्यगमनासमाप्ता मुक्ते निवृत्तेऽनिलो गुदे प्रतिहतः सन् बलवान् भूला उरोऽर्त्ति शिरोऽर्त्ति चोर्ध्वोः सदनञ्च जनयेत् । तश्चिकित्सामाह – वस्तिः स्यादित्यादि । विल्वादिपञ्चमूलं मदनफल श्यामादि चापामार्गतण्डुलीयोक्तं त्रिवृतां त्रिफलामित्याच तं गोमूत्रञ्चाष्टगुणे जलें निकाथ्य पादावशेषः काथस्तत्र स्नेहलवणं दत्त्वा पीड्यमाने वस्तौ निरूहवस्तिर्हितः स्यात् ॥ ८॥
३६६६
गङ्गाधरः- वस्तिमपीड़नकाले हस्तकम्पनदोषमाह - स्याद् दाह इत्यादि । कम्पनाभिहते गुदे दाहादि स्यात् । तत्र चिकित्सामाह - कषायेत्यादि । कषायमधुरद्रव्यकृतकाथेन सेकश्च वस्तिश्च तत्र हितः ॥ ९ ॥
गङ्गाधरः- अतीत्यादि । अतिमात्रमवृत्तेनातिशयप्रविष्टेन नेत्रेण बलेगु' दबलेः क्षणात् क्षतभावात् छद्यदि स्यात् । तत्र चिकित्सामाह - तत्रेत्यादि । क्षण पिचुः क्षीरादिश्च ॥ १० ॥
For Private and Personal Use Only
निष्कृष्य ऋजु प्रवेशयेत् । संशोध्य प्रवेशयेदिति योज्यम्; अन्तरा मुक्ते मध्ये विच्छेदे कृते प्रतिहतो वायुः गुदात् प्रत्याहतः । विल्वादि दशमूलम्, श्यामादि श्यामात्रिवृतादि विरेचनअव्यम् ॥ ८ ॥
1
चक्रपाणिः - अति मासप्रणीतेनेति पुनः पुनः प्रणीतेन । अन्ये तु दूरप्रवेशनम् अतिमास प्रणयनमाहुः । safe प्रणयनं प्रथितकर्णिकाया उपरि न भवति, तथापि कर्णिकापीडनात् अतिमास प्रवेशो शेयः 1