________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३थ अध्यायः ]
सिद्धिस्थानम् ।
३६७६
यष्टग्राहलोधाभयचन्दनैश्च श्रुतं पयोऽया कमलोत्पलैश्च । सशर्करचौघृतं सुशीतं पित्तामयान् हन्ति सजीवनोयम् ॥२६॥ द्विकार्षिकाश्चन्दनपद्मकर्द्धि-यष्टयाहरानावृषशारिवास्तु | सलोधमञ्जिष्ठमथाप्यनन्ता- बला स्थिरादितृणपञ्चमूलम् ॥ निक्काथ्य तोयेन रसेन तेन भृतं पयोऽर्द्धादकमम्बुहीनम् । मेदर्द्धिजीवन्तिशतावरोभिर्वोराद्विका कोलिकशेरुकाभिः ॥ सितोपला जीवकपद्मरेणु-प्रपौण्डरीकः कमलोत्पलैश्च । लोधात्मगुप्तामधुकैर्विदारी- मुआतकैः केशरचन्दनैश्च ॥ पिष्टघृ तक्षौद्रयुतैर्निरूहं ससैन्धवं शीतलमेत्र दद्यात् । प्रत्यागते धन्वरसेन शालीन् चीरेण वाद्यात् परिषिक्तगात्रः । दाहांतिसारौ प्रवरात्रपित्त-हृत्पाण्डुरोगान् विषमज्वरांश्च । सगुल्ममूत्रग्रहकामलादीन् सर्व्वामयान् पित्तनुतान् निहन्ति ॥ २७॥
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः- यष्टप्राह त्यादि । यष्टप्राह्वादिभिः कल्करष्टांशिकः पयः मृत कमलोत्पलः कल्कयु तं विमध्य शर्कराक्षौद्रघृतयुतं सुशीतं निरूहः ॥ २६ ॥
J
गङ्गाधरः द्विकार्षिका इत्यादि । चन्दनादिवृणपञ्चमूलान्तं प्रत्येकं द्विकार्षिक सर्व्वमष्टगुणेन तोयेन निकाथ्य पादावशेषेण तेन रसेन शृतमद्धड़क' पस्तत् काथहीन दुग्धमात्रं शिष्टं मेदादिभिः कल्कैरनुरुपेयु क्तं घृतक्षौद्रयुतं संसन्धवं सुशीतं निरूढं पत्ते दद्यात् । प्रत्यागते परिषिक्तगात्रः सन् धन्वमांसरसेन क्षीरेण वा शाल्यन्नमद्यात् । शेषमाशीः ॥ २७ ॥ ·
परिभाषयैव । यष्ठपालो त्यादि सजीवनीयमत्यन्तेन योगः । जीवनीयान्यत्र कल्कः । सुशीतत्वमिहोत्सर्गिक मृदुकोष्ठेष्वबाधकं पित्तहितत्वात् । अनया च दिशाऽपरपित्तवस्तावपि शीतत्वं ज्ञेयम् ॥ २५ ॥ २६ ॥
चक्रपाणिः - द्विकार्षिकमित्यादौ अनन्ता उत्पलशारिवा । तृणपञ्चमूलम् - "शरेभुवमंकाशानां शालीनां मूलमेव च" इत्यादिनोकम् । अम्बुहीनमिति
श्रीराम शेषपर्यन्तं भतम् ।
For Private and Personal Use Only