________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ वस्तिसूत्रीय सिद्धिः
३६६६
1
चरक संहिता | जरद्रवो माहिषहारिणौ का स्यात् शौकरो वस्तिरजस्य वापि दृढ़स्तनुर्नष्टसिरो विगन्धः कषायरक्तः सुमृदुः सुबन्धः । नृणां क्यो वीक्ष्य यथानुरूपं नेत्रेषु योज्यस्तु सुबन्धसूत्रः ॥ ५ ॥ तेरभावे नवजो गलो वा स्यादङ्कपादः सुघनः पटो वा । नेत्रस्य चालाभत एव नाडी हितास्थिजा वंशभवो नलो वा ॥ ६ ॥ श्रीस्थापनाहं पुरुषं विधिज्ञः समीक्ष्य पुण्येऽहनि शुक्लपचे । प्रशस्तनक्षत्रमुहूर्त्तयोगे जीर्णान्नमेकाग्रमुपक्रमेत ॥ ७ ॥
गङ्गाधरः - इति नेत्रकरणमुक्त्वा वस्तिद्रव्यमाह - जरद्गव इत्यादि । जरद्रवस्य वृद्धस्य गोस्तथा माहिषादिर्वा वस्तिर्मूत्राशयचम्म दृढ़स्तथा तनुः पचः नष्टसिरो विगन्धश्च काय्यैः, पुरुषाणां वयो वीक्ष्य गोमहिषादीनां बृहन्मध्यशुद्रवस्तिः कार्यः । सुश्रुते च वस्तयश्च वृद्धानां मृदवो नातिबला हा प्रमाणवन्तो गोमहिषवराहाजोरभ्राणाम् । वस्तिं निरुपदिग्धन्तु शुद्धं सुपरिमार्जितम्। मृद्वनुद्धतहीनश्च मुहुः स्नेहविमर्द्दितम्। वस्त्यलाभे हितं व सूक्ष्मं वा तान्तवं घनम् । नेत्रालाभे हिता नाड़ी नलवंशास्थिसम्भवा इति ॥ ५ ॥
वाधरः- वस्तेरभाव इत्यादि । प्रवादीनां चर्म तथा घनः पये का शाखा इति ॥ ६ ॥ गङ्गाधरः - अथ मेकचित्तम् ॥ ७ ॥
वस्तिप्रणिधानमाह - आस्थापनाई मित्यादि ।
एकाग्र
चक्रपाणि:- केभ्यश्च कियोनिगुणश्च वस्तिरित्यस्योत्तरं - जारद्रव इत्यादि । जारद्रवो वृद्धगोभवः । वस्तिरिति मूलाशय पुटकम् । नष्टशिर इति समुद्धृतशिरा सन्ततिः । विगतो पूतिगन्धो यस्थ- स बिगन्धः । कषायरत इति कषायभावनया रक्तीकृतः । वयो वीक्ष्य यथानुरूपमिति चयोभवेन म यो वस्तिर्यस्योचितप्रमाणो भवति स तस्य नेते निबन्धनीयः एतेन 'केभ्यः को पतिः' इत्यस्योत्तरम् भवति ॥ ५ ॥
चक्रपाणि: -वस्त्यप्राप्त्यानु कल्पविधिमाह - वस्तेरलाभ इत्यादि । प्रबली प्रसेवक गलः पक्षी, लव इति ख्यातः, अङ्कपादश्चर्म्मचटकः, तस्य धर्म ग्राह्य ं वस्त्यर्थम् ॥ ६ ॥
For Private and Personal Use Only
चक्रपाणिः-निरूहम्मत्यादिप्रश्नस्योत्तरम् - आस्थापनार्हमित्यादि । शुक्लपक्ष इति शुक्लपक्षस्य सर्व्वारम्भेषु प्रशस्तत्वात् | हारीतेन तु कृष्णपक्ष एवास विहितः, उक्तं हि — कृष्णपक्षे कार्य