________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६४०
चरक-संहिता। कल्पनासिदिः शाखागताः कोष्ठगताश्च रोगाः मम्मोई सर्वावयवागताश्च । ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति ॥ विगमूत्रपित्तादिमलाशयानां विक्षेपसङ्घातकरः स यस्मात् । तस्यातिवृद्धस्य शमाय नान्यद वस्तेविना भेषजमस्ति किञ्चित्। तस्माञ्चिकित्सा मितिब्रन्ति सवां चिकित्सामपि वस्तिमेके॥ नाभिप्रदेशश्च कटिश्च गत्वा कुकिं समालोड्य पुनश्च पृष्ठम् । संस्निह्य कायं शिथिलांश्च कृत्वा दोषान् पुरीष ग्रथितं विमथ्य। सुसक्तवेगःसपुरोषदोषः प्रत्यागतो वस्तिरिति प्रशस्तः ॥२२॥२३॥ . गङ्गाधरः-शाखागता इत्यादि। ये शाखागतादयो रोगास्तेषां जन्मनि परं हेतुयोरन्यो न कश्चिदस्ति । यस्मात् स वायुर्विष्णूत्रादिविक्षेपसङ्घातकरः। अतिवृद्धस्य तस्य वायोः शमाय वस्तेविना किञ्चिन्भेषजं नास्ति। तस्मादित्यादि। तस्मादेके धन्वन्तर्यादयश्चिकित्सार्द्ध वस्तिमेकमपरं चिकित्सार्ट सच्चों चिकित्सां ब्रुवन्ति। कस्मादेवमुत्कृष्टो वस्तिरित्यत आह-नाभीत्यादि। नाभिप्रदेशादिगमनादिपूर्वकप्रत्यागमनं वस्तेः प्रशस्ततायां हेतुः॥ २२ ॥ २३॥
चक्रपाणिः-वस्तेर्बहुविषयां स्तुतिमाचक्षाणः 'किंगुणो वस्तिः' इति प्रश्नस्यैवोत्तरं पुनराहशाखागता इत्यादि । शाखाकोष्ठमर्मगता इत्यनेन त्रिविधशाखादिरोगमार्गो गृहीतः। मर्मजशब्देन हि मध्यमरोगमार्गाधयिणां सन्धिजानामपि साहचर्याद ग्रहणम् । इह मम्मास्थिसन्धयो हि मध्यमरोगमार्ग उक्तः। अर्द्ध सर्वशब्देन च ऊधिस्तियंगभेदादप्युक्तरोगमार्गतयग्रहणम् । 'अवयवाङ्गज'शब्देन च प्रादेशिकसङ्गिभेदादप्युक्त ग्रहणम् । वायोः परमिति वायोः परेण कश्चित् श्रेष्ठ इति यावत् । एतेन यद्यपि कफपित्ते अपि रोगेषु कारणे भवतः, तथापि वायुरेव श्रेष्ठः इत्युच्यते। वायोः श्रेष्ठत्व एव हेतुमाह-विष्मूत्यादि। पित्तादोत्यस आविशब्देन कफस्य प्रहणम्, न च मलशब्देन कफस्य ग्रहणम्। मलशब्देन चेतरधातुमलानां खमलादीनाञ्च ग्रहणम्। आशयशब्देन मलव्यतिरिक्तप्रसादाख्यानामाशयानां धातूनाञ्च ग्रहणम्। विक्षेपसंहारकर इति वियोगमेलककरः। एतेन यस्माद वायुरेव दोषमलधातूनां संयोगविभागी करोति, तेन दोषष्यविण्मलमेलकरूपनिखिलव्याधिकरणे वायुरेव प्रधानं भवतीति भावः । किंवा, भाशयशब्दः प्रत्येकं विड़ादिभिः सम्बध्यते, स्थानेन च स्थानिनो सभ्यन्ते, विदादि. संयोगविभागेनैव च सर्वव्याधिकरणपरिग्रहो भवति। भवत्येवं वस्तितिहराणाम् वस्ताक्चिकित्सारूपता तथा सर्वचिकित्सारूपता।
तक वस्तेः कृताकृतलक्षणानि क्रमेणाह नाभीत्यादि। विलोब्यति संभोभ्य।
For Private and Personal Use Only