________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२०
चरक-संहिता। दन्तीद्रवन्तीकल्या द्वे पलाः पलं मुष्टिः प्रकुञ्चोऽथ चतुर्थिका। विल्वं षोडशिकञ्चाघ्र द्वे पले प्रसृतं विदुः॥ अष्टमानञ्च विज्ञयं कुड़वो द्वौ च मानिका। पलं चतुर्गणं विद्यादञ्जलिं कुड़वं तथा ॥ चत्वारः कुड़वाः प्रस्थश्चतुः प्रस्थास्तथादकम् । घटश्चोक्तः स एव स्यात् कीर्तिताऽष्टशरावकः ॥ पात्री पात्रं तथा कंसश्चत्वारो द्रोण आढ़काः।
स एव कलसः ख्यातो घट उन्मानमर्मणम् ॥ विद्यात। दो द्रङ्गणौ त्वेकं कर्ष सुवणमक्ष विड़ालपदकं पिचं पाणितलं तिन्दुकं कवडग्रहं पर्यायै विद्यात् । इति दश गुञ्जामाषकचतुष्टयात्मकशाणचतुष्टयेण तुल्यः कषे उक्तः । 'मनुना तूक्तः–'पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोड़श' इति। विष्णसंहितायान्तु–'कृष्णलपञ्चको माषस्तदद्वादशकमक्षाद्धम्। अक्षाद्धमेव सचतुर्माषकं सुवणः। चतुःसुवर्णको निष्क इति । इहाक्षामिति संशा, न तु कषेपायाक्षार्द्धम् । स्वस्वशास्त्र व्यवहारार्थ परिमाणस्य संशभेदो न विरुध्यते। सुश्रुतेऽपि-'पञ्चगुञ्जामितो माषको दशरक्तिकश्च यथा भवति तथव धान्यमाषशिम्बिफलाभ्यामुक्तः,' इति । द्वौ सुवर्णावित्यादि। द्वौ तु कषौ पलार्द्ध स्यात् सा शुक्तिश्चाष्टमिका चेति पर्यायेणोच्यते। द पला? पलं मुष्टिः प्रकुश्चश्चतुर्थिका विल्वं षोडशिकं चाम्र निष्कश्चेति पर्यायेणोच्यते। मनुनोक्तश्च–'पलं सुवर्णाश्चत्वारः पलानि धरणं दश' इति । द्वे पले प्रसृतं विदुरिति । पलद्वयं प्रसृतम् अष्टमानश्चेति पायोणोच्यते। द्वौ कुड़वो मानिका विशे या शरावश्चेति पय्यायेणोच्यते । का पुनरुच्यते कुड़व इति ? पलं चतुगुणं चतुःपलमञ्जलि कुड़वं पय्योयेण विद्यात् । चखारः कुड़वा एकः प्रस्थः। चत्वारः प्रस्था ये तदेकमाढकंस एव घटश्चोक्तः। स एवाष्टशरावकः पात्री पात्रं कंसश्च पर्यायेणोच्यते। चखार आढ़का द्रोणः कलसो घट उन्मानमर्माणञ्चेति पर्यायेणाभिधीयते। चतुःषष्टिमाषकाश्चतुर्विंशतिधान्यमार्गुणताः षटत्रिंशदधिकपञ्चदशशतधान्यमाषा एव भवन्ति, तेन तुल्यता । सुश्रतेऽपि तत्र द्वादशधान्यमाषाः स्वर्णमाषक ते च चतुःषष्ठिः पलामति व्यवस्थापितम्,
For Private and Personal Use Only