________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रेश अध्याय । कल्पस्थानम् ।
वमनैश्च विरेकैश्च विशुद्धस्याप्रमाणतः। भोजनान्तरपानाभ्यां दोषशेषं शमं नयेत् ॥४०॥ . दुर्बलं शोधितं पूर्वमल्पदोषञ्च मानवम् । अपरिज्ञातकोष्ठश्च पाययेदौषधं मृदु ॥ श्रेयो मृवसकृत् पीतमल्पबाधं निरत्ययम् । न चातितीक्ष्णं यत् क्षिप्त जनयेत् प्राणसंशयम् ॥४१॥ दुर्बलोऽपि महादोषो विरेच्यो बहुशोऽल्पशः।
मृदुभिर्भेषजैदोषा हन्युयें न विनिहताः॥४२॥ गङ्गाधर-बमरित्यादि। वमनविरेचनः अप्रमाणतो विशुद्धस्य भोजनान्तरपानाभ्यां शेष दोषं शमं नयेत् ॥ ४०॥
गङ्गाधरः-दुर्बलमित्यादि। दुर्बलमथवा पूर्व शोधितमल्पदोषं तथा यस्य कोष्ठं न परिक्षाप्तं मृदु वा करं मध्यं वा तं मृदुवीर्य्यमौषधं पाययेत् । कस्मात् १ श्रेय इत्यादि। यस्मान्मृदु भेषजमल्पबाधमसकृत् पीतं निरत्ययं तस्मात् श्रेयः । यचातितीक्ष्णं भेषजं क्षिप्त प्रयुक्तं सत् प्राणसंशयं न जनयेत, तदपि श्रेयः॥४१॥ __ गङ्गाधरः-दुर्बल इत्यादि। बहुदोषश्चेत् तदा दुब्र्बलोऽपि अल्पमल्पं मृदुभिर्भेषजबहुशो विरेच्यः। कस्मात् ? यस्माद् ये दोषा न विनिह तास्ते हन्युरिति ॥४२॥
चक्रपाणिः-वमनविरेचनाभ्यां किञ्चिच्छेषीकृतदोषप्रतीकारार्थमाह-वमनैश्चेत्यादि। अस बहुवचनं वेगबहुत्वापेक्षया। अप्रमाणत इति न निःशेषेण। तत्र भोजनं पाचनं यवानमादिभोजनम् । अन्तरपानं कषायपानम्। ये तु प्रमाणत इति पठन्ति ते सम्यक शुद्धावपि कोशोपलेपकदोषप्रशमनार्थ भोजनान्सरपानं व्याख्यानयन्ति ॥ ४०॥
चक्रपाणिः-मडशोधनोपपादनीयमाह-दुर्बलमिति। शोधितं पूर्वशोधितस्य दुर्बलतया मृडभेषजं देयम् । तीक्ष्णेन हि पलभ्रशोऽतियोगश्च स्यात् । मृदुप्रयोगोपपत्तिमाह-श्रेय इत्यादि । भसकृत्पीतमिति भसङ्कल्पीतमल्पयाधं भवतीत्यर्थः। श्रेय इति व्यापत्तिकरतीक्ष्णापेक्षया ज्ञयम् । न गतितीक्षणमिति । न चातितीक्ष्णं दुर्बलानां देयम्, यस्मादतितीक्ष्णं दुर्बलानां क्षिप्रं प्राणसंशयं नमयेत् ॥४१॥
४५३
For Private and Personal Use Only