________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
३६१२
अपक्वं वमनं दोषं पच्यमानं विरेचनम् । निर्हरेद् वमनस्यातः पार्क न प्रतिकल्पयेत् ॥ ३६ ॥ पीते प्रत्र सने दोषान् न नित्य जरां गते । मिते चौषधे धीरः पाययेदोषधं पुनः ॥ ३७ ॥ दीप्ताग्निं बहुदोषं तं दृढ़स्नेहगुणं नरम् । दुःशोध्यं तदहभुक्तं श्वोभूते पाययेत् पुनः ॥ ३८ ॥ दुर्व्वलो बहुदोषश्च दोषपाकेन यो नरः । विरिच्यते रसैर्भोज्यैर्भूयस्तमनुसारयेत् ॥ ३६ ॥
[ दन्तवन्तः
गङ्गाधरः - अपकमित्यादि । वमनमौषधमपक' सद् दोषं निईरेत् । विरे - चनमोषधन्तु पच्यमानं सद् दोषं निईरेत् । अतो हेतोर्वमनस्य पार्क न. प्रतिकल्पयेत् । वमनौषधे पीते सति दोषान्न निहत्य जरां गतेऽथवा तदौषधे वमिते धीरः पुनर्वमनौषधं पाययेत् ॥ ३७ ॥
गङ्गाधरः- दीप्ताग्निमित्यादि । तं बहुदोषं दीप्ताग्निं दृढ़स्नेहगुणं नरं दुःशोध्यं शाखा तदहर्भुक्तं दोषोत्क्लेदकरमाहारं श्वः परदिने भूते पुनः वनौषधं पाययेत् ॥ ३८ ॥
गङ्गाधरः- दुब्र्बल इत्यादि । दुर्व्वल एवं बहुदोषश्च यो नरो दोषपाकेन भोज्यैरसैराहारैस्तं नरमनु पश्चाद्भूयो विरेचयेत् ॥ ३९ ॥
For Private and Personal Use Only
चक्रपाणिः — अपक्वं वमनमित्यादिना वक्तव्ये जीर्णसदृशता च वमनस्य क्षोभाक तथा पाकोन्मुखतयाल ज्ञेया । वमनप्रयोगेषु अयोगप्रतीकारार्थं भेषजान्तरप्रयोगे कर्त्तव्ये पाककालाप्रतीक्षणं कर्त्तव्यं किमित्यत आह- पाकं न प्रतिपालयेदिति ॥ ३६ ॥
चक्रपाणिः - वमने आवश्यकं कर्त्तव्यमभिधाय विरेधनेऽप्याह-पीते प्रत्र सन इत्यादि । मिते घौषध इति विरेचनौषधमाले वमिते । पुनरिति तदहरेव ॥ ३७ ॥
चक्रपाणिः - विरेचनस्तोक हरणे इतिकर्त्तव्यतामाह- दीप्ताग्निमित्यादि । दृढ़स्नेहलक्षणो गुणो देहे यदा नास्ति तदास्य भेषजं न दातव्यं किन्तु स्नेह एव तावत् कर्त्तव्यः । असम्यक स्निग्धो हि पुनरपि क्रियमाणं विरेचनमसम्यग्योगायैव भवति । दुःशुद्धमित्ययोगेनाविशुद्धम् । श्वोभूते किंवा श्रोभूयः इति पाठः । दोषपाकेनेति पक्कदोषेऽपि बद्धत्वात् बहुदोषश्च विरिच्यते । रसैर्भोज्यैरित्यनुलोमनैः । अत्र च प्रवृद्धदोषेऽतियोगभयान्न पुनविरेचनप्रयोगमनुजानीते ॥ ३८/३९ ॥