________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः कल्पस्थानम् ।
३६०३ पलं चित्रकदन्त्योश्च हरीतक्याश्च विंशतिः। त्रिवृत्पिपलिकों द्वौ गुड़स्याष्टपलेन तु ॥ विनीय मोदकान् कुर्याद दशैकं भक्षयेत् तु तम् । उष्णाम् च पिबच्चानु दशमे दशमेऽहि वा ॥ एते निष्परिहाराः स्युः सर्वरोगनिबर्हणाः । विरेचनं पित्तकासे पाण्डुरोगे च शस्यते। ग्रहणीपाण्डुरोगार्शःकण्डूकोठानिलापहाः ॥ १५ ॥ दन्तीद्विपलनियू हो द्राक्षाईप्रस्थसंयुतः। दन्तीकल्कः समगुड़ः शीतवारासुतं पिबेत् । विरेचनं मुख्यतमं कामलापहमुत्तमम् ॥ १६ ॥ श्यामा दन्ती रसो गौड़ः पिप्पलीफलचित्रकैः ।
लिप्तेऽरिष्टोजनलश्लेष्म-क्रिमिपागडदरापहः॥ · गङ्गाधरः-पलमित्यादि। चित्रकस्य पलं दन्त्याः पलम्, हरीतक्या आकृति मानाद विंशतिगुडकाः, त्रिताकर्षः पिप्पलीकर्षश्च, सर्व गुड़स्याष्टपलेन क्निीय पक्त्वा मोदकान् दश कुर्यात्, तत एकं मोदकं तं भक्षयेदित्येकः ॥१५॥ ... गाधर-दन्तीत्यादि। दन्तीमूलस्य द्विपलस्याष्टगुणे जल पक्त्वा पादशेषनिय्यू हो द्राक्षाया अर्द्धप्रस्थनिय्यूहयुतः, दन्तीकल्कस्य द्विपलस्य समगुड़ः, तत् सर्व भाजने स्थापयेत्, काले जातमासुतं पिबेदित्येकः ॥१६॥
गङ्गाधरः-श्यामेत्यादि। श्यामात्रिऋत्दन्तीमूळे गौड़ो रसोर्डावर्तित गुड़, पिप्पलीमदनफलचित्रका कल्कैलिप्ते भाजने तत् सर्च स्थापयेत्, ममिति तृतीयः। दन्तीत्यादिना भक्ष्ययोगश्चतुर्थः। दन्तीद्रवन्तीमरिचमित्यादिकः पञ्चमः । हेमरमा स्वर्णक्षीरो। चूर्णन्त्वित्यन्तं पिबेदिति सम्बन्धः ॥ १४-१४॥
चक्रपाणि:-चित्रकेत्यादिकः षष्ठः। हरीतक्याश्च विंशतिरित्याकृतिमानेन। अयं योगलमाम्तरेऽगस्त्यमोदक इति ख्यातः। दन्तीद्विपलेत्यादिकः सप्तमः। अव दन्तीद्विपलद्राक्षा स्थ
For Private and Personal Use Only